2023-02-27 05:36:04 by ambuda-bot
This page has not been fully proofread.
२३
प्रणयप्रसादाख्यं तृतीयं स्तोत्रम् ।
गर्जामि बत नृत्यामि पूर्णा मम मनोरथाः ।
स्वामी ममैष घटितो यत्त्वमत्यन्तरोचनः ॥११॥
गजमि बतेति । अतिभक्तिरसानन्दघूर्णितस्येयमुक्तिः । असन्तं
रोचनः अतिशयेन प्रियः । एष इति वक्तुमशक्यः स्वानुभवसंसि-
द्धः । तथा च असन्तरोचनः विश्वग्रासकत्वेन अतिदीप्तप्रकाशव-
पुर्यतस्त्वं स्वामी मम घटितः समावेशेन मयाऽऽसादितः । ततोगर्जा-
मि महारवमुच्चारयामि, नृयामि हर्षप्रसरभरेण सर्वतोमायाप्रमा-
दभावधूननसारं गात्रविक्षेपं करोमि । मम च मनोरथाः पूर्णाः
निराकाङ्क्षोस्मि जात इसर्थः । वत इति अनुत्तरचित्स्वरूपप्रसभि-
ज्ञानाद्विस्मयमुद्राऽनुप्रवेशं ध्वनति ॥ ११ ॥
नान्यद्वेद्यं क्रिया यत्र नान्यो योगो विदा च यत् ।
ज्ञानं स्यात् किन्तु विश्वैकपूर्णं चित्त्वं विजृम्भते॥१२॥
नान्यद्वेद्यमिति । तथाविधो मम स्वामी घटितो यत्र स्वामिनि
सति अन्यद्भिन्नं वेद्यं, अन्या क्रिया, अन्यो योगः, अन्या च विदा
संविन्नास्ति, घटितस्वामिव्यतिरिक्तं मम न किं चिदपि भाती-
सर्थः । क्रिया विदा इत्यत्र अन्या इति योजना । तत्र पूर्ण त्वस्ये-
वेत आह । किन्तु यज्ज्ञानं स्यात्तद्विश्वस्यैका पूर्णाहुतिः बो-
धाग्नि मज्वालिनी, पूर्णाहंपरामर्शक्रियाशक्तिस्वरूपमेतज्ज्ञानमिति
यावत् । यच्चेहळ्ज्ञानं तदेवं चित्त्वं शिवप्रकाशरूपत्वं विजृम्भते
नान्यत् । यथागमः "न योगोऽन्यः क्रिया नान्या तत्त्वारूढा हि
या मतिः । स्वचित्तवासनाशान्तौ सा क्रियेयभिधीयते" ॥१२॥
दुर्जयानामनन्तानां दुःखानां सहसैव ते ।
हस्तात्पलायिता येषां वाचि शश्वच्छिवध्वनिः॥ १३॥
CC-0 Pulwama Collection. Digitized by eGangotri