This page has not been fully proofread.


 
शिवस्तोत्रावल्याम्
 
ईदृशा इति संसारक्लेशभाजनभूताः अवज्ञास्पदं भक्तिमता-
मगणनीया एव ॥ ७ ॥
 
प्रभुणा भवता यस्य जातं हृदयमेलनम् ।
प्राभवीणां विभूतीनां परमेकः स भाजनम् ॥८॥
 
मभुणेति । उक्तार्थप्रातिपक्ष्येणोक्तिः । यस्येति कस्यचिदेव ।
अहृदयास्तु प्रायो बहव इति बहुवचनमत्र नोक्तं । हृदयमेलनं
समावेशेनैकत्वम् । विभूतयः अद्वयानन्द सम्पदः । यस्य च लौकिके-
श्वरेण हृदयमेलनं भवति स एवैकस्तु विभूतीनां पात्रं नान्य
इति श्लेषेण ध्वनति ॥ ८ ॥
 
हर्षाणामथ शोकानां सर्वेषां प्लावकः समम् ।
भवढ्यानामृतापूरो निम्नानिम्नभुवामिव ॥६॥
 
हर्षाणामिति । भवद्ध्यानं समावेशरुपं त्वच्चिन्तनमेव अमृ
तापूरः । स यथा निम्नानिम्नभुवामशुद्धेतररूपमायाविद्याभूमीनां
समं युगपत्प्लावकः सामरस्यापादकः, तथा लौकिकशोकहर्पा-
दीनामपि । समाविष्टस्य हि युगपदेव निखिलं परमानन्दव्याप्तिमयं
जायते । जलापूरश्च निम्नोन्नताश्च भूमीः प्लावयति ॥ ९ ॥
केव न स्याद्दशा तेषां सुखसम्भारनिर्भरा ।
येषामात्माधिकेनेश न क्वापि विरहस्त्वया ॥१०॥
 
केव न स्याइशेति । येषामात्माधिकेनेश, देहादि निमज्ज्य
चिद्धनत्वेन स्फुरता त्वया कदाचिदपि न वियोगः तेषां
मुखसम्भारनिर्भरा परमानन्दपूर्णा का इव दशा न स्यात्
सर्व्वैव भवतीसर्थः । जीवन्तः ईश्वरावियुक्ताश्च सदा सुखिनो
भवन्ति ॥ १० ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri