This page has not been fully proofread.

प्रणयप्रसादाख्यं तृतीयं स्तोत्रम् ।
 
२१
 
आ-
सितातपत्रमिति । इन्दुः सर्वमेयरूपः, प्रकाशदशायां स्वप्र-
भाभिश्चैतन्यमरीचिभिः परिपूर्णतां प्रापितः, यस्य सितं शुद्धं,
स्वात्मलग्नत्वाच्च बद्धं, पाशवहेयोपादेयतादिकल्पनोत्थात्
तपात् त्रायते इसातपत्रं । तथा स्वः स्वर्ग तदुपलक्षितं च निरयं
धर्माधर्मफलं धुनोति स्वर्धुनी मध्यवाहिनी चिच्छक्तिः, सैव प्रस-
रद्रूपत्वात्स्रोतः, तद्यस्य चामरं माहात्म्यप्रथाहेतुः । स एको न तु
अन्यः परम ईश्वरः । स्थूलदृष्ट्या तु निजरश्मिपूर्णः खण्डेन्दुः गङ्गा
च यस्यासाधारणं छत्रं चामरं चेति स्पष्टम् ॥ ४ ॥
 
प्रकाशां शीतलामेकां शुद्धां शशिकलामिव ।
दृशं वितर मे नाथ कामप्यमृतवाहिनीम् ॥ ५॥
 
1828
 
प्रकाशां शीतलामिति । प्रकाशां स्वप्रकटां, शीतलां सन्ता-
पहरां, थुद्धां भेदशङ्काशातिनीं च, एकामद्वितीयां, कामप्यपूर्वी,
अमृतवाहिनीं च अमृतस्यन्दिनीं, दृशं संविदं, मे मह्यं, नाथ,
वितर प्रयच्छ । शशिकलापक्षे रिलष्टोक्तेः स्पष्टोऽर्थः ॥ ५ ॥
त्वच्चिदानन्दजलधेश्च्युताः संवित्तिविप्रुषः ।
इमाः कथं मे भगवन्नामृतास्वादसुन्दराः ॥६॥
त्वच्चिदानन्द इति । त्वत्तः चिदानन्दसमुद्रात्, याः संवि-
त्तिविभुषः नीलमुखादिज्ञानकणिकाः, प्रकाशमानत्वाच्चिदान-
न्दसारा एव, च्युता निर्याताः, समकालममृतास्वादसुन्दरा,
इमा विस्फुरन्सो, नो कथं भवन्ति, भवन्येवेसर्थः ॥ ६ ॥
त्वयि रागरसे नाथ न मनं हृदयं प्रभो ।
येषामहृदया एव तेऽवज्ञास्पदमीदृशाः ॥ ७ ॥
त्वयि रागेति । त्वाद्वैपये रागरसो भक्तिप्रसरः । तत्र
येषां हृदयं न मग्नं समाविष्टं, ते अविद्यमानतान्त्रिकहृदयाः
 
CC-0 Pulwama Collection. Digitized by eGangotri