This page has been fully proofread once and needs a second look.

शिवस्तोत्रावल्याम्
 
ॐ सदसत्त्वेन भावानां युक्ता या द्वितयी गतिः ।

तामुल्लङ्घ्य तृतीयस्मै नमश्विचित्राय शम्भवे ॥ १॥
 

 
ॐ सदसत्त्वेनेति । भावानां प्रमेयादीनां जन्मसत्तादिरूपतया

प्राक्प्रध्वंसाभावादिरूपतया च द्वितयीरूपा द्वितयीयुक्ता यतस्ते
भावा भावनीयाः सम्पादनीयाः, तामुल्लङ्घ्य उज्झित्वा यस्तृतीयः
सदसत्ताभ्या- मव्यपदेश्यत्वात्तुर्यादिवत्संख्ययैव व्यपदेश्यः स्थितः,
तस्मै चित्राय आश्चर्याय विश्वचित्राय नमः इति माप्राग्वत् ॥ १ ॥
 

 
सुरर्षिजनादस्मिन्नस्वतन्त्रे जगत्रये ।

स्वतन्त्रास्ते स्वतन्त्रस्य ये तवैवाऽनुजीविनः ॥२॥

 
आसुरर्षि इति । जगत्रयं माप्राग्वत् । सुरर्पिषिजनात् मरीच्या-
दिदेवर्षिजनात् । आ आङ् अभिविधौ । अस्वतन्त्रत्व सृष्टिसंहार-
गोचरत्वं । स्रष्ट्रादिरूपस्तु शम्भुरेव स्वतन्त्रः । तस्य च ये ऽनु-
जीविनः तदात्मकस्वात्मसाक्षात्कारिणः
ते ऽपि तत्समावेशा
त् स्वतन्त्रा एव ॥ २ ॥
 

 
अशेष विश्वखचितभवद्वपुरनुस्मृतिः ।

येषां भवरुजामेकं भेषजं ते सुखासिनः ॥ ३ ॥

 
अशेषेति । भवरुजां सांसारिकोपतापानां । भेषजमौषधं । वि
श्वखचितत्वा- त्सर्वोपकृतिकरणक्षमा भवद्पुरनुस्मृतिः चिदात्म-
नस्त्वत्स्वरूपस्यानुगततया स्मरणं समावेशमयं येषामस्ति, ते
मु
सुखासिनः । सत्स्वपि देहादिनान्तरीय- केषु दुःखस्पर्शेषु परमानन्द-
घने सुख एव तिष्ठन्ति ॥ ३ ॥
 

 
सितातपत्रं यस्येन्दुः स्वप्रभापरिपूरितः ।

चामरं स्वर्धुनीस्रोतः स एकः परमेश्वरः ॥ ४ ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri