This page has been fully proofread once and needs a second look.

सर्वात्मपरिभावनाख्यं द्वितीयं स्तोत्रम् ।
 
परत्वात्, चित्रमद्भुतं च नास्ति, अनुत्तरत्वादागमस्य सर्वसंभा-
वनाभूमित्वात्, अथ च पटे स्थितं शासनमविचित्ररूपं चेति
चित्रञ्चम् ॥ २७ ॥
 

 
सर्वाऽऽशङ्कानशानं सर्निं सर्व्वाऽलक्ष्मीकालानंल तथा ।

सर्वाऽमगंल्यकल्पान्तं मार्गं माहेश्वरं नुमः ॥२८॥

 
सर्वाशंकाइति । सर्वासामाशङ्कानां द्रव्यपूजामंन्त्रादिसङ्की-
र्णत्वाद्युक्तानां विचित्र संसारबीजभूतानां चित्तवृत्तिम्लानिदानां
अशनिनिं स्वरूपध्वंसकं । आम्नांयेऽपि च " शङ्कापि न
विशङ्केत निश्शँकत्वमिदं स्फुट"मित्युक्तं । अलक्ष्मीणां अनान-
न्ददशानां कालानलं महादाहकं, सर्वामङ्गल्या नामशुभसूचकानां
कल्पान्तं निःशेषेण नाशकं, माहेश्वरं मार्गे शाक्तं प्रसरं नुमः ॥ २८ ॥

 
जय देव नमो नमोऽस्तु ते
 

सकलं विश्वमिदं तवाश्रितम् ।

जगतां परमेश्वरो भवान्
 

परमेकः शरणागतोऽस्मि ते ॥ २९ ॥
 

 
जयदेवेति । परमेकोस्मीति देहाद्यभिमानेन त्वन्मायाश
क्तिक्लृप्तेन विश्वविभेदेन त्वत्तः पृथगिव कृतः, अत एव शरण-
मागतः । युक्तं चैतत् यतो विश्वमिदं तवाश्रितं चिन्मयत्वत्स्वरू-
पमग्नं, ततश्च जगतां भवानेव परमेश्वरः ब्रह्मादिभ्यः सदाशि-
वान्तेभ्यः उत्तमः, अत एव हे देव क्रीडादिशील, जय देहाद्य-
भिमानमिममुदस्य स्वरूपेण प्रथस्व इति प्राग्वत् ॥ २९ ॥

 
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावल्यां सर्वात्मपरिभावना-
नामकं द्वितीयस्तोत्रम् ॥ २ ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri