This page has been fully proofread once and needs a second look.

मुनीनामिति । तपोयोगादिनिष्ठानां कपिलादीनामपि ज्ञातुमशक्यं । भक्ति सम्बन्धचेष्टिताः समावेशरसानुविद्धव्यापाराः । आलिङ्गन्त्यपि दृढावष्टम्भयुक्त्या स्वसम्भोगपात्रं कुर्वन्त्यपि यं तस्मै कस्मै चित्स्वात्मनि स्फुरते नमः ॥ २४ ॥
 
परमामृतकोशाय परमामृतराशये ।
सर्वपारम्यपारम्यप्राप्याय भवते नमः ॥ २५ ॥
 
परमामृत इति । परमानन्दरसस्य कोशो गञ्जमिव, अतस्तत्पूर्णत्वाद्राशिश्च, बहिरपि तन्मयत्वात् । सर्वस्य मायादेः पारम्यं परमत्वं प्रकाशमानता । तस्यापि पारम्यं आनन्दघनश्चमत्कार: शाक्तः समुल्लासः, तेन प्राष्याय ॥ २५ ॥
 
महामन्त्रमयं नौमि रूपं ते स्वच्छशीतलम् ।
अपूर्वमोदसुभगं परामृतरसाल्वणाम् ॥ २६ ॥
 
महामन्त्रमयेति । महामन्त्रमयं अकृत्रिमाहम्परामर्शमयं तव रूपं नौमि इति प्राग्वत् । स्वच्छं विश्वप्रतिबिम्बधारणात् । शीतलं संसारतापहारित्वात् । अपूर्वेण आमोदेन अलौकिकेन व्यापिपरिमलेन ह्लादिना स्वरूपेण । सुभगं स्पृहणीयं । परमामृतरसेन परमानन्देनोल्वणं बृंहितम् ॥ २६ ॥
 
स्वातन्त्र्यामृतपूर्णात्वदैक्यख्यातिमहापटे ।
चित्रं नास्त्येव यत्रेश तन्नौमि त तावशासनम् ॥ २७॥
 
स्वातन्त्र्या इति । स्वातन्त्र्यामृतेन सम्पूर्णा स्वतन्त्रता आनन्दघना या त्वदैक्यख्यातिः भवदभेदप्रथा सैव विश्वचित्रतन्तुव्याप्त्या महापटः, तत्र विषये यत् शासनं, शास्यतेऽनेनेति कृत्वा त्वदुपदेशको य आगमः तं नौमि। यत्र विश्वमाश्चर्यमयं त्वदैक्यप्रथनसारेऽपि चित्रं नानारूपं नास्त्येव, त्वदैक्यख्यातिप्रतिपादन-