2023-02-27 05:36:04 by ambuda-bot
This page has not been fully proofread.
शिवस्तोत्रावल्याम्
मुनीनामिति । तपोयोगादिनिष्ठानां कपिलादीनामपि ज्ञातु-
मशक्यं । भक्ति सम्बन्धचेष्टिताः समावेशरसानुविद्धव्यापाराः । आ-
लिङ्गन्यपि दृढावष्टम्भयुक्सा स्वसम्भोगपात्रं कुर्वन्यपि यं तस्मै
कस्मै चित्स्वात्मनि स्फुरते नमः ॥ २४ ॥
परमामृतकोशाय परमामृतराशये ।
सर्वपारम्यपारम्यप्राप्याय भवते नमः ॥ २५ ॥
१८
परमामृत इति । परमानन्दरसस्य कोशो गञ्जमिव, अतस्त-
त्पूर्णत्वाद्राशिश्च, बहिरपि तन्मयत्वात् । सर्वस्य मायादेः पारम्यं
परमत्वं प्रकाशमानता । तस्यापि पारम्यं आनन्दघनश्चमत्कार:
शाक्तः समुल्लासः, तेन प्राप्याय ॥ २५ ॥
महामन्त्रमयं नौमि रूपं ते स्वच्छशीतलम् ।
अपूर्वमोदसुभगं परामृतरसालवणम् ॥ २६ ॥
महामन्त्रमयेति । महामन्त्रमयं अकृत्रिमाहम्परामर्शमयं तव
रूपं नौमि इति माग्वत् । स्वच्छं विश्वप्रतिबिम्बधारणात् । शीतलं
संसारतापहारित्वात् । अपूर्वेण आमोदेन अलौकिकेन व्या-
पिपरिमलेन ह्लादिना स्वरूपेण । सुभगं स्पृहणीयं । परमामृतरसेन
परमानन्देनोल्वणं बृंहितम् ॥ २६ ॥
.
स्वातन्त्र्यामृतपूर्णत्वदेक्यख्यातिमहापटे ।
चित्रं नास्त्येव यत्रेश तन्नौमि त तासनम् ॥ २७॥
स्वातन्त्र्या इति । स्वातन्त्र्यामृतेन सम्पूर्णा स्वतन्त्रता आनन्द-
घना या त्वदैक्यख्यातिः भवदभेदमथा सैव विश्वचित्रतन्तु-
व्याप्या महापटः, तत्र विषये यत् शासनं, शास्यतेऽनेनेति कृत्वा
त्वदुपदेशको य आगमः तं नौमि । यत्र विश्वमाश्चर्यमयं त्वदैवय-
प्रथनसारेऽपि चित्रं नानारूपं नास्येव, त्वदैक्यख्यातिप्रतिपादन-
CC-0 Pulwama Collection. Digitized by eGangotri