This page has been fully proofread once and needs a second look.

तत्त्वविदामिति तात्पर्यम् । यत्तच्छब्दाः नियमव्युदासाय । यथागमः "यथालाभं प्रपूजयेदि "ति ॥ २०॥
 
मुमुक्षुजनसेव्याय सर्वसन्तापहारिणो ।
नमो विततलावरायवाराय वरदाय ते ॥२१॥
 
मुमुक्षु इति । साधकानां मन्त्राणां प्राणत्वान्मुमुक्षुभिरेव समनन्तरोक्तयुक्या निर्यन्त्रणं सेवितुं शक्याय । सर्वेषां भेदमयानां सन्तापानां हारिणे अपहन्त्रे । विततेत्युक्तिः परमानन्दघनत्वेनातिस्पृहणीयत्वात् । वार: समूहः "समूहनिवहव्यूहवारसङ्घातसञ्चया" इत्यमरः । वरदाय संविन्नैर्मल्य- सारप्रसादप्रदाय ॥ २१ ॥
 
सदा निरन्तरानन्दरसनिर्भरिताखिल- ।
त्रिलोकाय नमस्तुभ्यं स्वामिने नित्यपर्वणे ॥२२॥
 
सदा निरन्तरानन्द इति । प्राग्वत्रिलोकस्य विश्वस्य स्वस्यानन्दरसेन पूरणात्स्वामिने इत्युचितोक्तिः । नित्यपर्व्वणे सदा विश्वपूरकरूपाय । पर्व पूरणे इत्यस्यप्रयोगः । सर्वश्च पर्वणि आनन्दरसनिर्भरितं निखिलं करोति ॥ २२ ॥
 
सुखप्रधानसंवेद्यसम्भोगैर्भजते च यत् ।
त्वामेव तस्मै घोराय शक्तिवृन्दाय ते नमः ॥ २३॥
 
सुखप्रधानं भृशक्तिवृन्दं संविद्देवीचक्रं, चमत्कारेणानन्द-
घनप्रमातृविश्रान्त्या प्रधानसंवेद्यसंभोगैः आनन्दसारविषयग्रासास्वादैः त्वामेव भजते त्वय्येव विश्वमर्पयति । तस्मै घोराय
सर्वसंहर्त्रे ते तव सम्बन्धिने नमः ॥ २३ ॥
 
मुनीनामप्यविज्ञेयं भक्तिसम्बन्धचेष्टिताः ।
आलिङ्गन्त्यापि यं तस्मै कस्मै चिद्भवते नमः ॥ २४ ॥