This page has been fully proofread once and needs a second look.

सर्वात्मपरिभावनाख्यं द्वितीयं स्तोत्रम् ।
 
१७
 
तत्त्वविदामिति तात्पर्यम् । यत्तच्छब्दाः नियमव्युदासाय । यथा-
गमः "यथालाभं प्रपूजयेदि "ति ॥ २०॥

 
मुमुक्षुजनसेव्याय सर्वसन्तापहारिणे ।
णो ।
नमो विततलावण्रायवाराय वरदाय ते ॥२१॥
 

 
मुमुक्षु इति । साधकानां मन्त्राणां माप्राणत्वान्मुमुक्षुभिरेव स-
मनन्तरोक्तयुक्या निर्यन्त्रणं सेवितुं शक्याय । सर्वेषां भेदमयानां
सन्तापानां हारिणे अपहन्त्रे । विततेत्युक्तिः परमानन्दघनत्वेना-
तिस्पृहणीयत्वात् । वार: समूहः "समूहनिवहव्यूहवारसङ्घातस-
ञ्चया" इत्यमरः । वरदाय संविन्नैर्मल्य- सारप्रसादप्रदाय ॥ २१ ॥

 
सदा निरन्तरानन्दरसनिर्भरिताखिल- ।

त्रिलोकाय नमस्तुभ्यं स्वामिने नित्यपर्वणे ॥२२॥
 

 
सदा निरन्तरानन्द इति । माप्राग्वत्रिलोकस्य विश्वस्य स्वस्या-
नन्दरसेन पूरणात्स्वामिने इत्युचितोक्तिः । नित्यपर्व्वणे सदा वि
श्वपूरकरूपाय । पर्व पूरणे इत्यस्यप्रयोगः । सर्वश्च पर्वणि आनन्दर-
सनिर्भरितं निखिलं करोति ॥ २२ ॥
 
-
 

 
सुखप्रधानसंवेद्यसम्भोगैर्भजते च यत् ।

त्वामेव तस्मै घोराय शक्तिवृन्दाय ते नमः ॥ २३॥
 

 
सुखप्रधानं भृन्दं संविद्देवीचक्रं, चमत्कारेणानन्द-

घनप्रमातृविश्रान्सांत्या भधानसंवेद्यसंभोगैः आनन्दसारविषय-
ग्रासास्वादैः त्वामेव भजते त्वय्येव विश्वमर्पयति । तस्मै घोराय

सर्वसंहर्त्रे ते तव सम्बन्धिने नमः ॥ २३ ॥
 

 
मुनीनामप्यविज्ञेयं भक्तिसम्बन्धचेष्टिताः ।

लिङ्गन्त्यापि यं तस्मै कस्मै चिद्भवते नमः २४
 

 
CC-0 Pulwama Collection. Digitized by eGangotri