This page has not been fully proofread.

सर्वात्मपरिभावनाख्यं द्वितीयं स्तोत्रम् ।
 
१७
 
तत्त्वविदामिति तात्पर्यम् । यत्तच्छब्दाः नियमव्युदासाय । यथा-
गमः "यथालाभं प्रपूजयेदि "ति ॥ २०॥
मुमुक्षुजनसेव्याय सर्वसन्तापहारिणे ।
नमो विततलावण्यवाराय वरदाय ते ॥२१॥
 
मुमुक्षु इति । साधकानां मन्त्राणां माणत्वान्मुमुक्षुभिरेव स-
मनन्तरोक्तयुक्या निर्यन्त्रणं सेवितुं शक्याय । सर्वेषां भेदमयानां
सन्तापानां हारिणे अपहन्त्रे । विततेत्युक्तिः परमानन्दघनत्वेना-
तिस्पृहणीयत्वात् । वार: समूहः "समूहनिवहव्यूहवारसङ्घातस-
चया" इसमरः । वरदाय संविन्नैर्मल्यसारमसादप्रदाय ॥ २१ ॥
सदा निरन्तरानन्दरसनिर्भरिताखिल- ।
त्रिलोकाय नमस्तुभ्यं स्वामिने नित्यपर्वणे ॥२२॥
 
सदा निरन्तरानन्द इति । माग्वत्रिलोकस्य विश्वस्य स्वस्या-
नन्दरसेन पूरणात्स्वामिने इत्युचितोक्तिः । निसपर्व्वणे सदा वि
श्वपूरकरूपाय । पर्व पूरणे इस स्यप्रयोगः । सर्वश्च पर्वणि आनन्दर-
सनिर्भरितं निखिलं करोति ॥ २२ ॥
 
-
 
सुखप्रधानसंवेद्यसम्भोगैर्भजते च यत् ।
त्वामेव तस्मै घोराय शक्तिवृन्दाय ते नमः ॥२३॥
 
सुखप्रधानं भृन्दं संविदेवीचक्रं, चमत्कारेणानन्द-
घनममातृविश्रान्सां भधानसंवेद्यसंभोगैः आनन्दसारविषय-
ग्रासास्वादैः त्वामेव भजते त्वय्येव विश्वमर्पयति । तस्मै घोराय
सर्वसंह ते तव सम्बन्धिने नमः ॥ २३ ॥
 
मुनीनामप्यविज्ञेयं भक्तिसम्बन्धचेष्टिताः ।
लिङ्गन्यपि यं तस्मै कस्मै चिद्भवते नमः २४
 

 
CC-0 Pulwama Collection. Digitized by eGangotri