This page has not been fully proofread.

शिवस्तोत्रावल्याम्
 
त्वम् वस्तुतस्तु चिनत्वात्तद्धीनत्वम् । विरोधाभासः पूर्ववत् ।
एवमुत्तरत्रीप ॥ १७ ॥
 
उपहास कसा रेस्मिन्ने तावति जगत्रये ।
तुभ्यमेवाद्वितीयाय नमो नित्यसुखासिने ॥१८॥
 
उपहासैक इति । तुच्छरूपत्वादुपहसनीयपरमार्थे एतावति
अतिवितते जगत्रये भवाभवातिभवात्मनि । अद्वितीयाय असाधा-
रणैकरूपाय नियमुखासिने आनन्दघनायोपादेयतमाय तुभ्य-
मेव नमः ॥ १८ ॥
 
दक्षिणाचारसाराय वामाचाराभिलाषिो ।
सर्वाचाराय शर्वाय निराचाराय ते नमः ॥१९॥
 
दक्षिणाचार इति । दक्षिणाचारो भैरवतन्त्रं अविपरीतानु-
ष्ठानं च सारः सारत्वेनाभिमतो यस्य । वामाचारं वादितन्त्रं वि
परीतक्रमं चाभिलपति यस्तस्मै । सर्व आचारो निजः परिस्पन्दो
यस्य । निष्क्रान्ता आचारा यस्मात् आचारेभ्यश्च ध्यानपूजा-
दिभ्यो निष्क्रान्तो यस्तस्मै । अथ च श्रीमदाचारनिराचाररूपं
यन्मतक्रमादि शास्त्रार्थतत्त्वं तद्रूपाय नमः ॥ १९ ॥
यथा तथाऽपि यः पूज्यो
 
यत्र तत्राऽपि योऽर्चितः .
योऽपि वा सोऽपि वा योऽसौ
 
देवस्तस्मै नमोऽस्तु
ते ॥ २० ॥
 
यथा तथा इति । येन येन प्रकारेण यत्र क्वचिद्यत्किञ्चिदा-
चर्यते तत्र स्वात्मदेवताविश्रान्तिरूपा पूजा अनायासेनैव सिद्धा
 
CC-0 Pulwama Collection. Digitized by eGangotri