This page has been fully proofread once and needs a second look.

तटेष्वेव इति । तेटष्वेव मन्त्रमुद्राचऋभूमिकादिज्ञानेषु चिद्रसप्रसरबाह्य- भूमिषु परिभ्रान्तैः । "पवनभ्रमणप्राणविक्षेपादिकृतश्रमाः कुहकादिषु ये भ्रान्ता भ्रान्तास्ते परमे पदे" इत्याम्नायस्थिया अन्तःसारानासादनाद्भ्राम्यद्भिः । तास्ता इति भेदमय्योऽणिमादिकाः । अगाधहरासिन्धवे इति अपरिच्छे- द्यान्तस्तत्वाय महेश्वरसमुद्राय । समुद्रे च तटेष्वेव ये भ्राम्यन्ति ते तन्मौ -
क्तिकाद्याप्नुवन्ति, ये तु अन्तर्विक्षेपक्षमाः ते महानिर्वृतिप्रदममृतमप्य- श्नान्तीति रूपकश्लेषेण ध्वनति ॥१४॥
 
मायामयजगत्सान्द्रपङ्कमध्याधिवासिने ।
अलेपाय नमः शम्भुशतपत्राय शोभिने ॥१५॥
 
मायामय इति । माया चिन्मयत्वाख्यातिः सैव प्राकृतं रूपं यस्य जगतः तदेव सान्द्रः पङ्को घनः कर्दमः तन्मध्याधिवासिनेSपि व्यापकत्वात्तव्ध्या- प्नुवतेऽपि अलेपाय शुद्धचिदेकरूपाय । शम्भुरेव शतपत्रं अनन्तशक्तिदलं तत्तत्सङ्कोचविकासधर्मकं कमलं तस्मै नमः । पङ्कमध्यस्थितेरप्यलेपता भगवतश्चिद्धनत्वेन तदसंस्पर्शादिति विरोधाभासः ॥१५॥
 
मङ्गलाय पवित्राय निधये भूषणात्मने ।
प्रियाय परमार्थाय सर्वोत्कृष्टाय ते नमः ॥ १६॥
 
मङ्गलायेति । मङ्गलेत्यादि स्पष्टं । सर्वोत्कृष्टायेति सर्वत्र योज्यं । येन येन मुखेन विचार्यते तेन तेनोत्तमत्वं सर्वोत्कृष्टत्वात् ॥ १६ ॥
 
नमः सततबद्धाय नित्यनिर्मुक्तिभागिने ।
बन्धमोक्षविहीनाय कस्मै चिदपि शम्भवे ॥१७॥
 
नमः सतत इति । भगवत एव बद्धमुक्ततयाऽवगमात्तथा-