This page has not been fully proofread.

शिवस्तोत्रावल्याम्
 
नमश्चराचरा इति । कपालिव्रतित्वं यद्भगवति प्रसिद्धं तत्त-
तो व्यक्ति । चराचराकाराः जङ्गमस्थावररूपाः ये परेताः
परं चिन्मयस्वरूपं इताः प्राप्ताः । तद्विना च निर्जीवत्वादपि
परेताः । तेषां निचयैः सदा युगपच्च क्रीडते तत्संयोजनवियोज-
नवैचित्र्यसहस्रविधायिने चिन्मयाय चित्परमार्थाय कपालिने
निःशेषकपालयुक्ताय अस्थिशेपीभूतविश्वधारिणे नमः ॥११॥
मायाविने विशुद्धाय गुह्याय प्रकटात्मने ।
सूक्ष्माय विश्वरूपाय नमश्चित्राय शम्भवे ॥१२॥
 
मायाविने इति । भेदोल्लासहेतुः स्वातन्त्र्यशक्तिः माया य
स्यास्ति स चिद्रपत्वाद्विशुद्धः । मायावी व्याजी च कथं विशुद्ध
इति विरोधाभासः । एवमन्यत्र । गुह्यः सर्वस्यागोचरः । प्रकटः
प्रकाशघनस्वात्मरूपः । सूक्ष्मो ध्यानादिनिष्ठैरप्यलक्ष्यः । विश्व-
रूपः स्वातन्त्र्यासहीतविश्वाकारः । अत एव चित्रो विचित्र
आश्चर्यरूपश्च ॥ १२ ॥
 
ब्रह्मेन्द्रविष्णुनिर्व्यूढजगत्संहारकेलये ।
 
करणीयाय नमस्ते सर्वशक्तये ॥१३॥
ब्रह्मेन्द्र इति । ब्रह्मेन्द्रविष्णुभिः सृष्ट्यधिष्ठितिस्थितिकरैः
कथमपि निर्वाहतवाद्यत् निर्व्यूढं संपन्नं जगत् । तस्य सर्वैः
सन्धार्यमाणस्य संहारः क्रीडामात्रं यस्य । अत एव आश्चर्यकर-
णीयः सर्वशक्तिः ब्रह्मादीनामपि स्वकर्मण्येतदीयसंजिहीर्पाभा-
वाभावमुखमेक्षित्वात् सर्वसामर्थ्ययुक्तो यस्तस्मै नमः ॥ १३ ॥
तटेष्वेव परिभ्रान्तैः लब्धास्तास्ता विभूतयः ।
यस्य तस्मै नमस्तुभ्यमगाधहरसिन्धवे ॥१४॥
 
CC-0 Pulwama Collection. Digitized by eGangotri