This page has been fully proofread once and needs a second look.

र्थस्तु स्वातन्त्र्याज्जगदुत्तिष्ठापयिषुर्वेदं विधत्ते वेदान्तदृष्ट्या तत्परमार्थरूपश्च अत एव सर्वस्य अविषयत्वाद्गुह्यः ॥ ७ ॥
 
संसारैकनिमित्ताय संसारैकविरोधिने ।
नमः संसाररूपाय निःसंसाराय शम्भवे ॥८॥
 
मायादेः क्षित्यन्तस्य संसारस्य एक एव निमित्तं तस्य विरोधी संहर्ता स एव । तथा संसाररूपतया भाति न पुनश्चिद्रूपशिवव्यतिरिक्तं संसारस्य निजरूपं किं चित् । एवमपि संसारान्निष्क्रान्तं निःसंसारं तेनासंस्पृष्टरूपमिति विरोधाभासः ॥८॥
 
मूलाय मध्यायाग्राय मूलमध्याग्रमूर्तये ।
क्षीणाग्रमध्यमूलाय नमः पूर्णाय शम्भवे ॥
 
मूलायेति । विश्वस्य कारणत्वात्स्वरूपत्वाद्विश्रान्तिस्थानत्वाच्च मूलं मध्यमग्रं च । यथा पृथक् मूलादिरूपः तथा युगपदपि अक्रमानन्तविश्वरूपत्वात् । न चास्य स्वात्मनि मूलादि किञ्चिच्चिन्मात्रैकरूपत्वात् । अत एव सर्वेसहत्वात्पूर्णः । विरोधाभासः प्राग्वत् ॥
 
नमः सुकृतसंभारविपाकः सकृदप्यसौ ।
यस्य नामग्रहः तस्मै दुर्लभाय शिवाय ते ॥१०॥
 
नमः सुकृत इति । यस्य सकृदेव नामग्रहः असाविति लोकोत्तरः पूर्ण- विश्रान्तिप्रदत्वात्पुण्यराशेः परिपाकः । तस्मै दुर्लभायेति महायोगिगम्याय नमः ॥ १० ॥
 
नमश्चराचराकारपरेतनिचयैः सदा ।
क्रीडते तुभ्यमेकस्मै चिन्मयाय कपालिने ॥११॥