This page has been fully proofread once and needs a second look.

सर्वात्मपरिभावनाख्यं द्वितीयं स्तोत्रम् ।
 
१३
 
र्थस्तु स्वातन्त्र्याज्जगदुत्तिष्ठापयिषुर्वेदं विधत्ते वेदान्तदृष्ट्या तत्प-
रमार्थरूपश्च अत एव सर्वस्य अविषयत्वाद्गुह्यः ॥ ७ ॥

 
संसारैकनिमित्ताय संसारैकविरोधिने ।

नमः संसाररूपाय निःसंसाराय शम्भवे ॥८॥
 

 
मायादेः क्षित्यन्तस्य संसारस्य एक एव निमित्तं तस्य
विरोधी संहर्ता स एव । तथा संसाररूपतया भाति न पुनश्चि-
दू
द्रूपशिवव्यतिरिक्तं संसारस्य निजरूपं किं चित् । एवमपि संसा-
रान्निष्क्रान्तं निःसंसारं तेनासंस्पृष्टरूपमिति विरोधाभासः ॥८॥
 

 
मूलाय मध्यायाग्राय मूलमध्याग्रमूर्तये ।

क्षीणाग्रमध्यमूलाय नमः पूर्णाय शम्भवे ॥६॥
 

 
मूलायेति । विश्वस्य कारणत्वात्स्वरूपत्वाद्विश्रान्तिस्था-
नत्वाच्च मूलं मध्यमग्रं च । यथा पृथक् मूलादिरूपः तथा युग-
पदपि अक्रमानन्तविश्वरूपत्वात् । न चास्य स्वात्मनि मूलादि
किञ्चिञ्च्चिन्मात्रैकरूपत्वात् । अत एव सर्वेसहत्वात्पूर्णः । विरोधा-
भासः प्राग्वत् ॥ १॥
 

 
नमः सुकृतसंभारविपाकः सक्कृदप्यसौ ।

यस्य नामग्रहः तस्मै दुर्लभाय शिवाय ते ॥१०॥
 

 
नमः सुकृत इति । यस्य सकृदेव नामग्रहः असाविति लोकोत्तरः पूर्ण-
कोत्तरः पूर्ण
विश्रान्तिप्रदत्वात्पुण्यराशेः परिपाकः । तस्मै दुर्ल-
भायेति महायोगिगम्याय नमः ॥ १० ॥
 

 
नमश्चराचराकारपरेतनिचयैः सदा ।

क्रीडते तुभ्यमेकस्मै चिन्मयाय कपालिने ॥११॥
 
CC-0 Pulwama Collection. Digitized by eGangotri