This page has not been fully proofread.

सर्वात्मपरिभावनाख्यं द्वितीयं स्तोत्रम् ।
 
१३
 
र्थस्तु स्वातन्त्र्याज्जगदुत्तिष्ठापयिषुर्वेदं विधत्ते वेदान्तदृष्ट्या तत्प-
रमार्थरूपश्च अत एव सर्वस्य अविषयत्वाह्यः ॥ ७ ॥
संसारैकनिमित्ताय संसारैकविरोधिने ।
नमः संसाररूपाय निःसंसाराय शम्भवे ॥८॥
 
मायादेः क्षिसन्तस्य संसारस्य एक एव निमित्तं तस्य
विरोधी संहर्ता स एव । तथा संसाररूपतया भाति न पुनश्चि-
दूपशिवव्यतिरिक्तं संसारस्य निजरूपं किं चित् । एवमपि संसा-
रान्निष्क्रान्तं निःससारं तेनासंस्पृष्टरूपमिति विरोधाभासः ॥८॥
 
मूलाय मध्यायाग्राय मूलमध्यायमूर्तये ।
क्षीणाग्रमध्यमूलाय नमः पूर्णाय शम्भवे ॥६॥
 
मूलायेति । विश्वस्य कारणत्वात्स्वरूपत्वाद्विश्रान्तिस्था-
नत्वाच्च मूलं मध्यमग्रं च । यथा पृथक् मूलादिरूपः तथा युग-
पदपि अक्रमानन्तविश्वरूपत्वात् । न चास्य स्वात्मनि मूलादि
किञ्चिञ्चिन्मात्रैकरूपत्वात् । अत एव सर्वसहत्वात्पूर्णः । विरोधा-
भासः प्राग्वत् ॥ १॥
 
नमः सुकृतसंभारविपाकः सक्दप्यसौ ।
यस्य नामग्रहः तस्मै दुर्लभाय शिवाय ते ॥१०॥
 
नमः सुकृत इति । यस्य सकृदेव नामग्रहः असाविति लो-
कोत्तरः पूर्णविश्रान्तिप्रदत्वात्पुण्यराशेः परिपाकः । तस्मै दुर्ल-
भायेति महायोगिगम्याय नमः ॥ १० ॥
 
नमश्चराचराकारपरेतनिचयैः सदा ।
क्रीडते तुभ्यमेकस्मै चिन्मयाय कपालिने ॥११॥
 
CC-0 Pulwama Collection. Digitized by eGangotri