This page has been fully proofread once and needs a second look.

शिवस्तोत्रावल्याम्
 
हेतुत्वात् विश्वस्य । चित्पदे रोदनाद्द्रावणाच्च रुद्रः । पूर्णा-
हन्तापरामर्श- मयत्वान्मन्त्रमूर्तिः ॥ ४ ॥
 

 
नमो निकृत्तनिःशेषत्रैलोक्यविगलद्वसा- ।

ऽवसेकविषमायाऽपि मङ्गलाय शिवाग्नये ॥५॥
 

 
नमो निकृत्त इति । निकृत्तं अख्यातिलक्षणान्मूलात्प्रभृति
खण्डश: कृतं भवाभवातिभवलक्षणं यत्रैलोक्यं तत्संबन्धिनी
बोधानलोद्दीपिनी आन्तर- रससाररूपा या वसा तत्कृतो योऽव-
सेकः आहुतिः ततो विषमायात्यन्तं जाज्वल्यमानाय अत एव
संसारामङ्गल्यपरिहृतिप्रदत्वान्मङ्गलाय शिववह्नये नमः । शरीर-
मा
प्राणादिपरिमितप्रमातृपदं तत्रैव समावेशयाम इत्यर्थः । सर्ववसां-
सावसेक विषमः श्माशानिकाग्निः कथं मङ्गल इति विरोधच्छाया ॥ ५

 
समस्तलक्षणायोग एवं यस्योपलक्षणाम् ।

तस्मै नमोऽस्तु देवाय कस्मै चिदपि शम्भवे ॥६॥
 

 
समस्तलक्षणेति । समस्तानां लक्षणानामभिज्ञानानां च त-
थाऽधिगमहेतूना- मुच्चारकरणध्यानादीनां यः अयोगः असम्ब-
न्धः स एव यस्य उप इसात्यात्मसमीपे लक्षणं हृदयङ्गमीकरणं
समस्तांच
समस्तचिन्ताविस्मरणस्यैव तत्प्राप्तिहेतुत्वात् अत एव कस्मै चिदिति संवृतिवक्रतया स्वात्मविस्फुर-
दिति संतृतिवक्रतया स्वात्मविस्फुर
द्रुपायेति ध्वनति ॥ ६ ॥

 
वेदागमविरुद्धाय वेदागमविधायिने ।

वेदागमसतत्त्वाय गुह्याय स्वामिने नमः ॥७॥
 

 
वेदागमइति । निःशेषनियमयन्त्रणात्रोटनालभ्यत्वाद्वेदवि-
रुद्धः यश्चयद्विरुद्धः स कथं तद्वित्ते तस्य च सतत्त्वरूपः चित्ता-
CC-0 Pulwama Collection. Digitized by eGangotri