This page has been fully proofread once and needs a second look.

सर्वात्मिपरिभावनाख्यं द्वितीयं स्तोत्रम् ।
 
क्षिताऽशेषाधिष्ठातृतया विश्वमयत्वम् । अत एव बहुरूपायेत्युंक्तम् ।

एवं विश्वरूपत्वेऽपि प्रधानमस्य स्वरूपमाह संविन्मयायेति । एतदेव

हि संविन्मयत्वं यत्स्वातन्त्र्योल्लासिताशेषविश्व निर्भरत्वम् ॥ १ ॥

 
विश्वेन्धनमहाक्षारानुलेपशुचिवर्चसे ।

महानलाय भवते विश्वैकहविषे नमः ॥ २ ॥
 

 
विश्वेन्धन इति । भवते महानलाय परमप्रमातृवह्नये नमः ।
कीदृशाय । विश्वस्य भेदराशेरिन्धनरूपस्य सम्बन्धि यन्महाक्षारं
भस्म तत्संहारशेषः संस्कारः, तेन यदनुलेपनम् संस्कारसंहारे-
णापि प्रमात्रुत्तेजनं, शुचि शुद्धमद्यरूपं वर्चस्तेजो यस्य तस्मै ।
अथ "शुचिर्नामाग्निरुदितः संघर्षात्सोमसूर्ययो"रित्यागमिकभा-
या शुचिनाम्ने तेजसे । विश्वमेकं हविः यस्येत्यनेन असन्तदी-
प्तत्वमुच्यते । श्रीमतङ्गाद्यागमस्थित्या रहस्यचर्यार्थ- स्यात्र सूचना-
द्विरोधच्छायाऽपि ॥ २ ॥
 

 
परमामृतसान्द्राय शीतलाय शिवाग्नये ।

कस्मै चिद्विश्वसंप्लोषविषमाय नमोऽस्तु ते ॥३॥
 

 
परमामृत इति । चिदानन्दघनत्वात्परमामृतसान्द्रत्वम् ।
भवतापहारित्वा- च्छीतलत्वम् । अग्रेनेश्च कथमार्द्रत्वशीतलत्वे इति
विरोधाभासच्छाया । कस्मै चिदित्यलौकिकस्वरूपाय ॥ ३ ॥

 
महादेवाय रुद्राय शङ्कराय शिवाय ते ।

महेश्वरायाऽपि नमः कस्मै चिन्मन्त्रमूर्तये ॥ ४॥
 

 
देवः सृष्ट्यादिक्रीडापरः विश्वोत्कर्षशालितया विजिगीषुः
अशेव्यवहार- प्रवर्तकः द्योतमानः सर्वस्य स्तोतव्यो गन्तव्यश्च
दीव्यतेः क्रीडाद्यर्थत्वात् । स च महान् ब्रह्मादीनामपि, सर्गादि-
CC-0 Pulwama Collection. Digitized by eGangotri