This page has not been fully proofread.

सर्वात्मिपरिभावनाख्यं द्वितीयं स्तोत्रम् ।
 
क्षिताऽशेषाधिष्ठातृतया विश्वमयत्वम् । अत एव बहुरूपायेत्युंक्तम् ।
एवं विश्वरूपत्वेऽपि प्रधानमस्य स्वरूपमाह संविन्मयायेति । एतदेव
हि संविन्मयत्वं यत्स्वातन्त्र्योल्लासिताशेषविश्व निर्भरत्वम् ॥ १ ॥
विश्वेन्धनमहाक्षारानुलेपशुचिवर्चसे ।
महानलाय भवते विश्वैकहविषे नमः ॥ २ ॥
 
विश्वेन्धन इति । भवते महानलाय परमप्रमातृवह्नये नमः ।
कीदृशाय । विश्वस्य भेदराशेरिन्धनरूपस्य सम्बन्धि यन्महाक्षारं
भस्म तत्संहारशेषः संस्कारः, तेन यदनुलेपनम् संस्कारसंहारे-
णापि प्रमात्रुत्तेजनं, शुचि शुद्धमद्रयरूपं वर्चस्तेजो यस्य तस्मै ।
अथ "शुचिर्नामानिरुदितः संघर्षात्सोमसूर्ययो"रित्यागमिकभा-
पया शुचिनाम्ने तेजसे । विश्वमेकं हविः यस्येसनेन असन्तदी-
सत्वमुच्यते । श्रीमतङ्गाद्यागमस्थिया रहस्यचर्यार्थस्यात्र सूचना-
द्विरोधच्छायाऽपि ॥ २ ॥
 
परमामृतसान्द्राय शीतलाय शिवाग्नये ।
कस्मै चिद्विश्वसंप्लोषविषमाय नमोऽस्तु ते ॥३॥
 
परमामृत इति । चिदानन्दघनत्वात्परमामृतसान्द्रत्वम् ।
भवतापहारित्वाच्छीतलत्वम् । अग्रेश्च कथमाईत्वशीतलत्वे इति
विरोधाभासच्छाया । कस्मै चिदिसलौकिकस्वरूपाय ॥ ३ ॥
महादेवाय रुद्राय शङ्कराय शिवाय ते ।
महेश्वरायाऽपि नमः कस्मै चिन्मन्त्रमूर्तये ॥४॥
 
देवः सृष्ट्यादिक्रीडापरः विश्वोत्कर्षशालितया विजिगीषुः
अशेपव्यवहारप्रवर्तकः द्योतमानः सर्वस्य स्तोतव्यो गन्तव्यश्च
दीव्यतेः क्रीडाद्यर्थत्वात् । स च महान् ब्रह्मादीनामपि, सर्गादि-
CC-0 Pulwama Collection. Digitized by eGangotri