This page has been fully proofread once and needs a second look.

म्भं स्वैरं स्त्रोकारं पुष्णन्ति । अत्र प्रियासम्भोगपोषिका एवसर्वस्य सम्पदोऽर्थनीया इत्यनुरणनव्यङ्ग्योपमाध्वनिः ॥ २३ ॥
 
चित्रं निसर्गतो नाथ दुःखबीजमिदं मनः ।
त्वद्भक्तिरससंसिक्तं निःश्रेयसमहाफलम् ॥२४॥
 
चित्रं निसर्ग इति । नाथ स्वामिन् इदं चित्रं दुःखकारणमिदं मनः सर्वस्य हेयं यदभिमतं तदेव त्वद्भक्तिरसायनेन सिक्तं परमानन्दमोक्षमहाफलम् । न हि कदाचिल्लोकं प्रति विषादेः मधुर आस्वादः अतस्त्वद्भक्तेरेवायम-
लौकिक: क्रम इति ध्वनित इति शिवम् ॥ २४ ॥
 
इति श्रीमदीश्वरप्रत्यभिज्ञाकाराचार्यचक्रवर्तिवन्द्याभिधानोत्पलदेवाचार्य- विरचिते भक्तिविलासाख्ये प्रथमस्तोत्रे महामाहेश्वरश्रीक्षेमराजविरचिता विवृतिः ॥ प्रथमम् १ ॥
 
ॐ तत्सत्
 
अथ सर्व्वात्मपरिभावनाख्यं द्वितीयं स्तोत्रम् ।
 
अग्नीषोमरविब्रह्मविष्णुस्थावरजङ्गम - ।
स्वरूप बहुरूपाय नमः संविन्मयाय ते ॥ १ ॥
 
अग्नीषोमरविभिः दाहाप्यायप्रकाशकारीच्छाक्रियाज्ञानरूपस्य शक्तित्रयस्य, ब्रह्मविष्णुभ्यामधिष्ठातृदेवतावर्गस्य, स्थावरजङ्गमाभ्यामधिष्ठितस्य प्रमेयममातृराशेश्च स्वीकृतत्वाद्विश्वात्मनः आमन्त्रणमिदं स्वरूपेत्यन्तं । तेन अग्नीषोमरविब्रह्मविष्णुस्थावरजङ्गमस्वरूप हे परमेश्वर । पञ्चभूतानि जङ्गमानामपि भूतदेहत्वात् । एवं च अग्निसोमसूर्यस्थावरजङ्गम अष्टमूर्तितया । ब्रह्मविष्णूपल-