This page has not been fully proofread.

शिवस्तोत्रावल्याम
 
म्भं स्वैरं स्त्रोकारं पुष्णन्ति । अत्र प्रियासम्भोगपोषिका एक
सर्वस्य सम्पदोऽर्थनीया इसनुरणनव्यङ्ग्योपमाध्वनिः ॥ २३ ॥
चित्रं निसर्गतो नाथ दुःखबीजमिदं मनः ।
त्वद्भक्तिरससंसिक्तं निःश्रेयसमहाफलम् ॥२४॥
 
चित्रं निसर्ग इति । नाथ स्वामिन् इदं चित्रं दुःखकारण-
मिदं मनः सर्वस्य हेयं यदभिमतं तदेव त्वद्भक्तिरसायनेन सिक्तं
परमानन्द मोक्षमहाफलम् । न हि कदाचिल्लोकं प्रति विषादेः
मधुर आस्वादः अतस्त्वद्भक्तेरेवाय मलौकिक: क्रम इति ध्वनित
इति शिवम् ॥ २४ ॥
 
इति
 
श्रीमदीश्वरप्रत्यभिज्ञाकाराचार्यचक्रवर्तिवन्द्याभिधानोत्पलदेवाचा-
र्यविरचिते भक्तिविलासाख्ये प्रथमस्तोत्रे महामाहेश्वर-
श्रीक्षेमराजविरचिता विवृतिः ॥ प्रथमम् १ ॥
 
ॐ तत्सत्
 
अथ सर्व्वात्मपरिभावनाख्यं द्वितीयं स्तोत्रम् ।
 
श्रीषोमरविब्रह्मविष्णुस्थावरजङ्गम - ।
स्वरूप बहुरूपाय नमः संविन्मयाय ते ॥ १ ॥
अग्नीषोमरविभिः दाहाप्यायप्रकाशकारीच्छाक्रियाज्ञानरू-
पस्य शक्तित्रयस्य, ब्रह्मविष्णुभ्यामधिष्ठातृदेवतांवर्गस्य, स्थावर-
जङ्गमाभ्यामधिष्ठितस्य प्रमेयममातृराशेश्च स्वीकृतत्वाद्विश्वात्मनः
आमन्त्रणमिदं स्वरूपेयन्तं । तेन अग्नीषोमरदिब्रह्मविष्णुस्थावर-
जङ्गमस्वरूप हे परमेश्वर । पञ्चभूतानि जङ्गमानामपि भूतदेहत्वात् ।
एवं च अग्निसोमसूर्यस्थावरजङ्गम अष्टमूर्तितया । ब्रह्मविष्णूपल-
CC-0 Pulwama Collection. Digitized by eGangotri
 
"