This page has been fully proofread once and needs a second look.

भक्तिविलासाख्यं प्रथमं स्तोत्रम् ।
 
ऽपि स्वानुभवसिद्धोऽस्ति एकत्र च शब्दलक्षणे विषये जिह्वा-
ग्रवर्तिनि समस्तविषयास्वाद इति विरोधच्छाया ॥ २० ॥

 
शान्तकल्लोलशीताच्छस्वादुभक्तिसुधाम्बुधौ ।

लौकिकरसास्वादे सुस्थैः को नाम गरायते ॥२१॥
 

 
शान्तकल्लोल इति । शान्ताः निवृत्ताः विकल्पमयाः कल्लो-
ला यत्र तथाभूते, संसारतापापूर्णत्वाच्छीते, विश्वप्रतिविबिम्बाश्र-
यत्वादच्छे निर्मले, आनन्द- विकासित्वात्स्वादौ, भक्त्यमृतसमुद्रे,
अलौकिकरसास्वादे समावेश- चमत्कारे, सुखेन तिष्ठन्ति सुस्थाः,
तैः भेदगलनात् को नाम गण्यते, तदा व्यतिरिक्तस्य कस्य चि
दप्यप्रतिभासात् । सुखस्थिताः न किञ्चिद्गणयन्ती- त्युचितै-
वोक्तिः ॥ २१ ॥
 

 
मादृशैः किं न चर्व्येत भवद्भक्तिमहौषधिः ।

तादृशी भगवन्यस्या मोक्षाख्योऽनन्तरोरसः ॥ २२॥

 
मादृशैरिति । मादृशैः भक्तितत्त्वज्ञैः, तादृशी इति अलौकिकी
भवद्भक्तिरेव अभीष्टप्रदत्वान्महौषधिः, किं न चर्व्येत किं न
धार्येत विचारेणास्वाद्येत इति यावत् । कीदृशी । यस्याश्चर्वणपरा-
मर्शानन्तरमेव जीवन्मुक्ताख्यः अनन्तरः अव्यवहितो रसश्चर्व-
णानन्दः ॥ २२ ॥
 

 
ता एव परमर्थ्यन्ते सम्पदः सद्विभिरीश याः ।

त्वद्भक्तिरससम्भोगविस्रम्भपरिपोषिकाः ॥ २३॥
 

 
ता एव इति । सद्भिः भक्तिशालिभिः ता एवेति असमत्वत्स-
मावेशमय्यः सम्पदः परं केवलमर्थ्यन्ते न तु अणिमाद्याः । की-
दृश्यो याः त्वद्भक्तिरससम्भोगे भवत्समावेशामृतचमत्कारे विस्र-
2
 
CC-0 Pulwama Collection. Digitized by eGangotri