This page has not been fully proofread.

भक्तिविलासाख्यं प्रथमं स्तोत्रम् ।
 
ऽपि स्वानुभवसिद्धोऽस्ति एकत्र च शब्दलक्षणे विषये जिह्वा-
ग्रवर्तिनि समस्तविषयास्वाद इति विरोधच्छाया ॥ २० ॥
शान्तकल्लोलशीताच्छस्वादुभक्तिसुधाम्बुधौ ।
लौकिकरसास्वादे सुस्थैः को नाम गरायते ॥२१॥
 
शान्तकल्लोल इति । शान्ताः निवृत्ताः विकल्पमयाः कल्लो-
ला यत्र तथाभूते, संसारतापापूर्णत्वाच्छीते, विश्वप्रतिविम्बाश्र-
यत्वादच्छे निर्मले, आनन्दविकासित्वात्स्वादौ, भक्त्यमृतसमुद्रे,
अलौकिकरसास्वादे समावेशचमत्कारे, सुखेन तिष्ठन्ति सुस्थाः,
तैः भेदगलनाव को नाम गण्यते, तदा व्यतिरिक्तस्य कस्य चि
दप्यप्रतिभासात् । सुखस्थिताः न किञ्चिद्गणयन्तीत्युचितै-
वोक्तिः ॥ २१ ॥
 
मादृशैः किं न चर्येत भवद्भक्तिमहौषधिः ।
तादृशी भगवन्यस्या मोक्षाख्योऽनन्तरोरसः ॥ २२॥
माहशैरिति । मादृशैः भक्तितत्त्वज्ञैः, तादृशी इति अलौकिकी
भवद्भक्तिरेव अभीष्टप्रदत्वान्महौषधिः, किं न चर्येत किं न
धार्येत विचारेणास्वाद्येत इति यावत् । कीदृशी । यस्याश्चर्वणपरा-
मर्शानन्तरमेव जीवन्मुक्ताख्यः अनन्तरः अव्यवहितो रसश्चर्व-
णानन्दः ॥ २२ ॥
 
ता एव परमर्थ्यन्ते सम्पदः सद्विरीश याः ।
त्वद्भक्तिरससम्भोगविस्रम्भपरिपोषिकाः ॥२३॥
 
ता एव इति । सद्भिः भक्तिशालिभिः ता एवेति असमत्वत्स-
मावेशमय्यः सम्पदः परं केवलमर्थ्यन्ते न तु अणिमाद्याः । की-
दृश्यो याः त्वद्भक्तिरससम्भोगे भवत्समावेशामृतचमत्कारे विस्र-
2
 
CC-0 Pulwama Collection. Digitized by eGangotri