This page has not been fully proofread.

शिवस्तोत्रावल्याम्
 
देते योग्यपेक्षया व्युत्थानाभिमते ऽपि समये समाहिता: "मय्या-
वेश्य मनो ये मा" मिति गीतोक्तनीया निसयुक्ताः ॥ १७ ॥
न योगो न तपो नाचक्रमः कोऽपि प्रणीयते ।
म शिवमार्गेऽस्मिन भक्तिरेका प्रशस्यते ॥ १८ ॥
 
न योगो न इति । शिवमार्गे परे शाक्ते पदे अस्मिन्निति
निरतिशये स्वानुभत्रैक साक्षिके मायीयनियतयोगाद्युपायपरि-
पाटी न काचिदुपदिश्यते तस्याः मायामयत्वेन अन्धतमसमख्या
यास्त्वत्र शुद्धविद्याप्रकाशातिशायिन्युपायत्वाभावात् भक्तिरेव
प्रतिभाप्रसादनात्मा उक्तचरी प्रशस्यते उपायत्वेनोच्यते ॥१८॥
सर्वतो विलसद्भक्तितेजोध्वस्तावृतर्मम ।
प्रत्यक्षसर्वभावस्य चिन्तानामापि नश्यतु ॥ १६॥
 
सर्वतोविलसदिति । अन्तर्बहिश्च विलसता जृम्भमाणेन
भक्तितजेसा समावेशप्रकाशेन ध्वस्ता आवृतिः अख्यातिर्यस्य
तत एव मायीय भूमिविस्मृतेः मसक्षभैरवमुद्राप्रवेशयुक्त्या आ
लोचनमात्रगोचरीभूताः सर्वे भावाः यस्य तस्य मम चिन्ताया
विकल्पवृत्तस्य नामा ऽपि अभिधानमपि नश्यतु नियमेव सा-
क्षात्कृतपरभैरवस्वरूपानुप्रविष्टो भूयासमिसर्थः ॥ १९ ॥
शिव इत्येकशब्दस्य जिह्वाग्रे वसतः सदा ।
समस्तविषयास्वादो भक्तेष्वेवास्ति कोप्यहो ॥ २०॥
 
शिव इसेक इति । उक्तेष्वेव भक्तेषु यो महाप्रकाशमयनिजस्व-
रूपपरामर्शात्मा शिव इसेकः असामान्यः सदा शिवोस्ति अहो
आश्चर्य तस्य शब्दमात्रस्याप्येककस्य विषयस्य परमानन्द-
व्याप्तिदायित्वात्समस्तविषयास्त्रादो जगदानन्दचमत्कार: को-
CC-0 Pulwama Collection. Digitized by eGangotri