2022-11-14 14:14:00 by Chinmay
This page has been fully proofread once and needs a second look.
वीरचरितं स्थाने स्थाने प्रगीयते स्म । पुण्यपत्तनवास्तव्यः खाडिलकर-
नामधेयः कश्चन " शाहीर : " ( कविरिति संस्कृतभाषायाम् ) नागपुरम्
आगत्य स्थाने स्थाने शिवचरित्र-विषयाणि वीरगीतानि ( पोवाडे इति
मराठी-भाषायाम् ) महता आवेशेन उच्चैः गायति स्म । तेषां वीरगीतानां
भूयः श्रवणेन उन्मनस्क इवाहमासम् । श्री. खाडिलकर-विरचितानि तानि
सर्वाणि वीरगीतानि मया शीघ्रमेव कण्ठस्थीकृतानि । अफजलखानवधम्
अधिकृत्य विरचितं तदीयं वीरगीतं नितान्तं खलु मे प्रियमासीत् यथा-
वसरं च एतानि वीरगीतानि वयस्यमण्डले उच्चैर् अहम् अगायम् ।
१९२७ तमे ख्रिस्ताब्दे राष्ट्रिय-स्वयंसेवक-संघेन समं प्रथमः परि-
चयो मेऽभवत् । संघधुरीणानां व्याख्यानेषु शिवाजिचरित्रविषया नाना-
विधा ऐतिहासिक्य आख्यायिका अनैतिहासिक्यश्च कथा मयाऽश्रूयन्त ।
संघकार्यकर्तृषु अण्णा सोहनी-नामधेयः व्यायामविद्याविशारदः परमोत्साह-
बल-संपन्नः कश्चन तरुणः कार्यकर्ता तदानीं नागपुरे आसीत् । अनेन
महानुभावेन सह दृढः खलु मे परिचयोऽभवत् । स हि ऐतिहासिक कथा-
निवेदन-कर्मणि बाढं प्रवीण आसीत् । बालकानां भावोद्दीपने असाधारणं
तस्यासीत् कौशल्यम् । शिवचरित्रानुबद्धा नानाविधा वीराद्भुत कथा:
प्रत्यहम् अनुभूता इव स मह्यं बहुशो निवेदयति स्म ।
अथैकदा मया पृष्टम् " कथं भवान् शिवाजिचरित्रविषयम् एतत्
सर्वं जानाति ? अपि भवान् तस्मिन् समये स्वयमासीत् ।
सोऽब्रवीत् "ओम् ! आसमहं तदानींतने काले साक्षात् शिवच्छत्रपतेः
अश्वभूतः । एतद् हि वाक्यं तेन तथा खलु उच्चारितं यथा तत्र बालस्य
मे द्रढीयानभवद् विश्वासो दीर्घकालपर्यन्तम् ।
नागपुरे दादाशास्त्री कायरकर-नामधेयः कश्चन सुविश्रुतः कीर्तन-
कला-कोविदः तेषु दिवसेषु स्वीयेन कथानिवेदन-कौशल्येन नितान्तं लोक-
प्रियतां प्राप । स हि महानुभावः कीर्तनावसरेषु महाराष्ट्रेतिहासगतानि
' आख्यानानि' अतीव रोचकतया वर्णयति स्म । तत्र च शिवचरित्र-
संबन्धीनि विविधानि आख्यानानि भृशं खलु मह्यम् अरोचन्त । नैकवारं
श्री. दादाशास्त्रि कायरकर-महाभागस्य कीर्तनानि श्रावं श्रावं मया शिव-
चरित्ररसपानं बाल्ये वयसि कृतमासीत् ।
१९३० तमे ख्रिस्ताब्दे त्रिशततम-शिवजन्ममहोत्सव-निमित्तं महा-
राष्ट्रस्थ-बालकानां प्रियतमया 'आनन्द ' -नाम-मासिक-पत्रिकया कश्चन
सचित्रः शिवाजिविशेषाङ्क: प्रकाशितः । दृष्टमात्र एव स शिवाजि-विशे-
षाङ्क: नितान्ततृषितेनेव मया नैकवारम् समग्रतया नूनं निपीतः । अतः-
पूर्वं न मया सविस्तरं शिवचरित्रं क्वचिदपि पठितुम् अलभ्यत ।