This page has been fully proofread once and needs a second look.

श्रीशिवराज्योदये महाकाव्ये "शिवशिक्षणं" नाम:
 
पञ्चमः सर्गः
 
जिजातनूजः शिवनेरिदुर्गे दिने दिने संववृधेऽतितेजाः ।
यथोदयाद्रावुदयोन्मुखोऽसौ क्षणे क्षणे बालसहस्ररश्मिः ॥१॥
विलम्बिदोलाशयने शयानः मुखारविन्देन पदारविन्दम् ।
लिहन् मुदा मातृमनोऽरविन्दे न्यषिञ्चदानन्दसुधाप्रवर्षम् ॥ २ ॥
क्षुधाकुलं तं च विजानती सा माता जिजां सत्वरमुत्सरन्ती ।
गाढं गृहीत्वा हृदयावलग्नम् अपाययत् स्नेहमयं पयः स्वम् ॥३॥
स स्तन्यपीयूषरसं प्रसन्नः पपौ स्वमातुर्मुखमीक्षमाणः ।
आकेकराक्षोऽमृतरश्मिविम्ब-निषक्तनेत्रो हि यथा चकोर: ॥ ४ ॥
अभ्यंगसुस्नातममुं कुमारं श्रीखण्डरेखाङकित - चन्द्रभालम् ।
विलोकयन्ती जनताद्रिसंस्था मेने शिवाजिं शिवकल्पमेव ॥ ५ ॥
संत्यज्य मृत्क्रीडनकानि सर्वाण्यबालसत्त्वः स हि वीरबालः ।
कृपाणखड्गच्छुरिकादिशस्त्रैः संक्रीडितुं तत्परतां दधार ॥६॥
आकर्ण-संकृष्टधनुर्गुणोऽसौ अनन्यदृष्टिः स्थिरचित्तवृत्तिः ।
विध्यन् स्ववेध्यं द्रुतमप्रमादं मेने गुणज्ञैः खलु वीरयोगी ॥७॥
सम्भ्रामयन् पट्टिशमुज्जवलाभं मरुज्जवेनेव सुनीलकान्तिः ।
रराज स स्वेदलवार्द्रमूर्तिः तडित्परीताभिनवाम्बुदाभः ॥ ८ ॥
दूरस्थवेध्याभिमुखं स्वशूलं प्रक्षिप्य शक्त्याऽपि पुनस्तमेव ।
संधकामः स्वकरेण भूयः शूलानुसारी प्रदुधाव वेगात् ॥९॥
स मल्ल केलीषु शिशून् वयस्थान न केवलं जेतुमभूत्समथः ।
वयोऽधिका अप्यभवन्न शक्ताः तरस्विनं जेतुममं कुमारम् ॥१०॥
वृक्षाग्रशाखासु समुत्प्लवन्तं प्लवङ्गवृन्दं भृशलोलशीलम् ।
विडम्बयन्नड्डयन्नैः स बालः प्रमोदमग्नान् विदधे वयस्यान् ॥ ११ ॥
झञ्झामरुच्चञ्चलमुत्प्लवन्तं तुरङ्गमं रश्मिविनाकृतं च ।
स्फुरत्सटावग्रहणं स वेगात् क्षणादिवाध्यास्य चमच्चकार ॥ १२ ॥
उक्षाणमुन्मत्तमपि प्रसह्य विषाणयोरात्मबलेन धृत्वा ।
प्रत्याक्षिपत्तं हि तथा यथाऽसौ वप्रावलीलारसमुत्ससर्ज ॥१३॥
सह्याद्रिजारण्यविहारलोलं शार्दूलशावं रभसा प्रगृह्णन् ।
पृष्ठं समध्यास्य मुदाऽस्य हिण्डन् धीरैरपि व्यात्तभयैरलोकि ॥ १४॥