This page has been fully proofread once and needs a second look.

श्रीशिवराज्योदयम् ।
 
शशिभुजङ्गवदेवसरिद्धरोऽपि स हरो न सहेत महातपम् ।
शिरसि सन्ततधारमतो जलं निहितमस्य जनैः प्रतिमन्दिरम् ॥४७॥
रविकरैरभितप्ततनूभृतां तरुविहीनपथं व्रजतां नृणाम् ।
क्वचिदकालघनो नभसि स्फुरन् वरदहस्तसमो भवति प्रभोः ॥४८॥
इति निदाघमहातापतपिते समय एव शुभाहनि माधवे ।
किमपि सौख्यमबोधितकारणम् स्वहृदये सहसा जनताऽन्वभूत् ॥
विपिनपुष्पसुगन्धवो मरुत् परिजहर्ष तथैव हुताशनः ।
मृदितभृङ्गविहङ्गकुलं जगौ किमपि मङ्गल-गीतमविस्फुटम् ॥
सकलदेवकुलेषु महाध्वनिः मुरजशंखभवोऽनददुच्चकैः ।
निशमिता: सुचिरं जयगर्जना: मुदितदेवगणैरिव घोषिताः ॥५१॥
सकलसज्जनमानसवर्तिनी परममङ्गलवाञ्छितवल्लरी ।
शुभतमेऽह्नि नवार्भकजन्मना सुफलिता शिवनेरि-महालये ॥५२॥
नवशिशोरतिभास्वरतेजसा न गृहमात्रगता लघुदीपिका: ।
प्रतिहता यवनाधिपमस्तकस्थितकिरीटमहामणिभा अपि ॥५३॥
पुण्ये च नामकरणाहनि मीलिताभिः तस्याङ्गनाभिरुदितं हि नवार्भकस्य
तद्दुर्गदैवतसमाख्यमनन्तकीर्ति प्रेम्णा शिवाजिरिति मङ्गलनामधेयम् ॥
नृवीरवर्यस्य रणोत्सुकस्य प्रियं शहाजेरपि तच्च नाम ।
शिवा भवेदाजिरमुष्य चेति स नामधेयार्थमुदाजहार ॥ ५५॥
नवीनां निरुक्तिं स्वतः कल्पितां तां स्वपुत्राभिधानस्य लोकान् ब्रुवाणः ।
पिता मन्त्रवत् संजुगुञ्जेव भूयः नवार्भकस्य तन्मङ्गलं नामधेयम् ॥५६॥
कुटीरे कुटीरे प्रसन्नान्तराणां शिशूनां च यूनां च सीमन्तिनीनाम् ।
ननर्तेव जिह्वाग्रमञ्चेऽभिधानं शिवाजिः शिवाजिः शिवाजिः शिवाजिः ॥
रसालरसरक्तकण्ठपिकवृन्दमञ्जुस्वराः
कृषीवलकुलाङ्गनाः प्रतिगृहं जगुः सर्वदा ।
सुशाययितुमर्भकान् स्वरचिताश्च गीतीर्नवाः ।
स्वबान्धवसुखश्रवाः प्रियशिवाजिनामाङ्किताः ॥ ५८ ॥
॥ इति श्रीशिवराज्योदये महाकाव्ये चतुर्थः सर्गः ॥