2022-12-09 06:44:18 by Chinmay
This page has been fully proofread once and needs a second look.
चतुर्थः सर्गः । २३
क्षणश एव यथा रविरुच्चकैः समधिरोहति तुङ्गनभोगिरिम् ।
जगदिदं स्वकरैरुपकर्षयन् नयति सन्निधतामिव चात्मनः ॥३१॥
रविकरैरदयं युगपद् हृतं सकलमीनसरोवरजीवनम् ।
प्रखरतापभृतां दहनात्मनां हतबलेषु कुतः करुणाऽसताम् ॥ ३२॥
तरणिना हि धरान्तरसंस्थितान् सकलरत्ननिधीनभिवीक्षितुम् ।
निजसहस्रकरैरिव दारिता कठिनमृत्कवचाऽपि वसुन्धरा ॥३३॥
तपनदीधितितापभृशाकुलं पशुकुलं विनिविष्टमहर्दिवम् ।
तरुतले बहुपल्लवशीतले पिहितचक्षुरहान्तमपेक्षते ॥ ३४ ॥
सुषमयाsमरराज हरिद् यया बहु विराजति पाटलयोषसि ।
प्रतिनिशं सकलास्वपि दिक्षुसा स्फुरति नूनमहो दववह्निना ॥ ३५॥.
मरुति वाति निशास्वतिदाहके स्फुरति दावमहानलतेजसि ।
न रविरस्तमगादिति शङ्कया बहिरियाय न घूककदम्बकम् ॥ ३६॥.
विगतपङ्कमये धरणीतले तरणितापहतं खलु गोकुलम् ।
न च विदूरमपैतुमभीहते क्षणमहो लघुकूपसमीपतः ॥ ३७॥
कृपणतुल्यमनेन जलं चिरं विजनकूपखलेन हि सञ्चितम् ।
तदपनीतमतो रविणा स्वयं खलधनं हरणीयमिहाधिपैः ॥ ३८॥
सकलकूपसरःसरितां पयो रविकरैरुपशोष्य दिवानिशम् ।
बहूपिपासितयेव दिवाऽधुना किमदयं सकलं परिपीयते ॥ ३९ ॥
यदि सरो विजलं क्व सरोरुहं ? न हि सरोरुहमेव कुतोऽलय: ?
यदलयो न कुतो मधुगुञ्जितं? न मधुगुञ्जितमेव कुतो मुदः ? ॥४०.
बक उपेति सरित्तटमुत्सुको नियतदम्भतपश्चरणाय सः।
विगतनीरतया पुलिने पुनः भवति तस्य नितान्तविडम्बना ॥४१॥
तपनदाह-सुदग्धतनूरियं बकततिः समगात् किमु कृष्णताम् ।
इति सशंकमयं बहुकौतुकी वियति पश्यति काकततिं जनः ॥४२॥
समविशद् रविरश्मिविभर्जितः प्रकुपितोऽहिरितीव पिपीलिकाः ।
स्वविवरं परिहाय भयाकुलाः उदककुम्भसमीपमुपस्थिताः ॥४३॥
विकचमेचकनीरजपुञ्जवत् निशि नभः प्रतिभाति च माधवे ।
तदभिलाषवशीकृतमानसा इव समुत्पतिता उडुहंसका: ॥४४॥
तपनदीधितितप्ततनूभृतो दिव इवाधिकघर्मपयःकणाः ।
उडुगणा हि निदाघनिशासु ते परिलसन्ति सुमौक्तिकसुन्दराः ॥ ४५ ॥ ॥
सुखयितुं सकलानुपनीतमित्यभिविलोकितमादरतो जनैः ।
पवनजेन हिमालयशृङ्गकं प्रतिनिशं शशिखण्डमदो मुदा ॥४६॥