This page has been fully proofread once and needs a second look.

श्रीशिवराज्योदयम् ।
 
भगवतीं महिषासुरमर्दिनीं समनुकर्तुमिवैच्छदनेकदा ।
प्रखरपट्टिशखड्गकृपाणभृत् निजवपुर्मुकुरे समलोकयत् ॥१५॥
नगरसीमविलङ्घनमङ्गलाहनि चतुर्दिगुपान्तजिगीषया ।
सरभसेव महारणरागिणी सकलदिक्षु च चक्षुरूपाक्षिपत् ॥१६॥
शरदि मङ्गलदीपमहोत्सवे पतितमन्दिरगर्भगृहेष्वपि ।
शतशतोज्ज्वलदीपकमालिका रचयितुं न्यदिशत् सकलान् जनान् ॥
नभसि गैरिकशोणशुभप्रभाम् उषसि सायमवेक्ष्य दिने दिने ।
समुदितो भगवद्ध्वज इत्यसौ प्रमुदिता समवन्दत भक्तितः ॥१८॥
न हि समैहत वीक्षितुमुज्ज्वलां निमिषमप्युदयाचलसंस्थिताम् ।
यवनशासनवैभवबोधिनीत्यतिशुभामपि चान्द्रमसीं कलाम् ॥१९॥
हततुरुष्कजयध्वजसप्रभेत्यभिविलोकयितुं न समैहत ।
मरकतोज्ज्वलपर्णसुशोभितां सुरुचिरामपि सह्यवनश्रियम् ॥२०॥
विषमसह्यगुहावनचारिणो वसनभूषणहीनतनूञ्जनान् ।
समवलोकयतादरतो यथा न हि तथा धनिनः स्वजनानपि ॥२१॥
हनुमदर्जुनभीमरघूत्तम-प्रभृतिवीरवरेण्यचरित्रतः ।
प्रथितसङ्गररौद्ररसाः कथा : निशमितुं भृशमुत्सुकतां दधे ॥ २२॥
परमपुरुषवीरचरित्रतो भृशमरोचत सैव कथाद्भुता ।
नखरशस्त्रबलेन महासुरो हत उरःप्रविदारमसौ यदा ॥२३॥
सकल एष जनोऽस्तु सुखाप्लुत: चिरमनामय एव च जीवतु ।
जगति पश्यतु भद्रमनेकधा भृशमयाचत सेति सदाशिवम् ।।२४।।
पतिरिमां निकटप्रसवामथो निजनिवासमरातिकुलाकुलम् ।
दृढमवेत्य पदं च निरापदं किमपि सुप्रसवं समचिन्तयत् ।।२५।।
निकटवर्तिनमुन्नतदुर्गमं शिवमयं च शिवासमधिष्ठितम् ।
गिरिगतं शिवनेरिशिवाभिधं स्ववशदुर्गमिमामहिनोदसौ ॥२६॥
 
निदाघवर्णनम् ।
 
अथ मधौ हि विलासविमूर्च्छिते तपनदीधितितापभयावहः ।
समय उष्णतयाऽतिविशोषको दहनबन्धुरिवाभियौ द्रुतम् ॥ २७ ॥
रविमवेक्ष्य सुतप्ततरं भृशं मरुदियाय स तद्गुणतां स्वयम् ।
बत बत क्षमया प्रथिता क्षमाऽभवदसौ सहसा ध्रुवमक्षमा ॥२८॥
खनितुमेव हि कूपतलं श्रमी विवरमेत्य भुवो भृशशीतलम्
सदनशेखरसंस्थितशिल्पिनं रविकराभिहतं समुदीक्षते ॥ २९ ॥
सुघटिता समता हि निदाघतः सकलसज्जनवृन्दसमीहिता ।
विनिहिताः सदनेष्वखिलैर्यतो धनिभिरप्यधनैरिव मृद्घटाः ॥३०॥