This page has been fully proofread once and needs a second look.

श्रीशिवराज्योदयम् महाकाव्यम् ।
"शिवजन्म" नाम चतुर्थः सर्गः ।
 
अथ सुतां पतिभक्तिसमत्सुकां स समवेत्य विदर्भनराधिपः
प्रियसुहृत्सचिवोत्तमसन्निभां स्वगृहिणीं निजगाद मनोगतम् ॥१॥
प्रियसुताविरहं परिभाव्य सा सपदि बाष्पपरिप्लुतलोचना ।
प्रतिजगाद जिजाजननी पतिं किमपि कुण्ठितकण्ठमविस्फुटम् ॥२॥
हृदयनाथ ! जिजा हृदयं मम श्वसितमुच्छ्वसितं खलु जीवितम् ।
अमृतवर्तिरिवाक्षिसुखप्रदा वद कथं बत तद् विरहं सहे ? ॥ ३ ॥
विरहकल्पनया मम मानसं हिमवदेव घनीभवति क्षणात् ।
द्रवति हन्त विमर्शवशात् पुनर् वहति बाष्पभरेण बहिर्मुखम् ॥४॥
किमु वदामि जिजाविरहाकुला तदभिधानपरा रसना मम ।
गदितुमुत्सहते न तदप्रियं प्रिय कुरुष्व यथाभिमतं तव ॥५॥
पतिकुलाभिगमनाहनि सङ्गता उषसि ताः सुखदुःखसमाकुलाः ।
प्रियसखीसहवासभृशातुराः सवयसः प्रतिवेशिकुलाङ्गनाः॥६॥
विहितमङ्गलगाहनभास्वरा रुचिरकुङ्कुमचन्द्रकलाधरा ।
अरुणवस्त्रयुता शुशुभे जिजा शरदुषा इव सर्वमनोहरा ॥७॥
धवलपाटलनीलसरोरुहै: विहितमङ्गलकुन्तलभूषणा ।
मुखविलोचनपद्ममयी जिजा सपदि सा ददृशे सरसी यथा ॥८॥
विविध-हीरक-मौक्तिक-भूषणैः हृदयसन्निहितैर्विरराज सा ।
गुणवती मृदुमञ्जुलभाषिणी सदुपमानगणैः कविता यथा ॥ ९ ॥
नयननीर-भृशार्द्रमुखी जिजा पतिपुराभिमुखी समदृश्यत ।
विषमसह्यशिलोच्चयमार्गगा गिरिनदीव महार्णवगामिनी ॥१०॥
पतिमिताऽमितसम्मदमानसा तदवलोकनमोदितमानसम् ।
तदुदितेङ्गितमात्रवशंवदा प्रथमसिद्धिरिवोत्तमकर्मिणम् ।।११॥
अथ चिरन्तनपुण्यकृतां सतां युगयुगान्तरसञ्चितकर्मणाम् ।
सुपरिपाकमिवोत्कटपिण्डितं कमपि गर्भमुवाह जिजा शिवम् ॥१२॥
श्रुतिरिवाद्भुतमन्त्रबलान्विता विजयभाग् रणनीतिरिवोज्ज्वला ।
प्रखरवीररसा कविता यथा प्रबलगर्भधरा शुशुभे जिजा ॥१३॥
प्रथिततीर्थजलान्तरगाहने मुनितपस्विपदाम्बुजवन्दने ।
सकलगोद्विजसम्परिपालने मनसि साऽविरतं प्रतितत्वरे ॥ १४॥