This page has been fully proofread once and needs a second look.

तृतीयः सर्गः । १९
 
सूर्यान्वयो भोसलनामकोऽसौ चन्द्रान्वयो यादवसंज्ञकश्च ।
सन्मण्डपे सेतुनिभेऽत्र यातां पूर्वापरौ तोयनिधी व योगम् ॥६६॥
चन्द्रान्वयस्योज्ज्वलवैजयन्ती जिजा विशेषोच्छ्वसितं मदीयम् ।
भवत्वसौ भोसलवंशहर्म्ये चिराय माङ्गल्ययशःपताका ॥" ६७॥
श्रुत्वैव सभ्या अमृतायमानं हृत्कर्णसन्तर्पणमाप्तवाक्यम् ।
"बाढं" 'वरं" "युज्यते " इत्यनेकैः ते साधुवादै: प्रशशंसुरुचैः ॥६८ ॥
सपदि यादव-वंश-पुरोहितः स्वयमुपेत्य तदैव जगौ मुदा ।
स्वरचितं चिरमङ्गलमष्टकं नववधूवरयोर्हितकाम्यया ॥६९॥
॥ मङ्गलाष्टकम् ॥
"यस्योद्दामविवर्तनैर्जलनिधेरुच्चैः समुत्क्षेपिताः
मुक्ताच्छा जलबिन्दवः समभवन् भास्वत्प्रभास्तारकाः ।
यः शङ्खासुरनाशितश्रुतिसमुद्धाराय बद्धव्रतः
श्रीविष्णोः प्रथमावतार इह वः कुर्यात् सदा मङगलम् ॥ ७० ॥
लीलाकूर्मकलेवरेण भुवनोद्धारैकशीलेन सा
मज्जन्ती प्रलयाम्बुधौ वसुमती येनोद्धृता लीलया ।
क्षुब्धाम्भोनिधिमन्थनेन हि परिभ्राम्यन् महामन्दर-
सौन्दर्यं समवाप यः स भगवान् कुर्यात् सदा मङगलम् ॥ ७१॥
कल्पान्तक्षुभिताग्निभासुरतरोज्ज्वाले विशालेक्षणे
झञ्झावातविकीर्णतोयदमहासङ्घातरौद्रा: सटाः ।
विद्युद्दामसहस्रभास्वरविभा-जाज्वल्यमाना नखाः
यस्यासन् नरसिंहरूपविभवे कुर्यात् सदा मङ्गलम् ॥७२॥
त्रैलोक्याक्रमणोद्यत - त्रिचरणप्रक्षेपणव्यापृतं
यत्पादाम्बुजसम्भवत्रिपथगानिःष्यन्दसम्प्लावितम् ।
सद्यःसागरमज्जनोद्गतमिव ब्रह्माण्डमुद्भासितं
विष्णोरद्भुतवामनाकृतिरसौ कुर्यात् सदा मङ्गलम् ॥७३॥
क्षत्रध्वान्त निमग्न भूमिवलये रक्ताक्तधाराधरो
यस्य स्कन्धनिवेशितः स परशुर्बालार्ककान्तिं दधौ ।
मत्तः क्षत्रिय राजवंशविपिनोच्छेदाय यो दीक्षितः
ब्रह्मक्षत्रमहोमयः स भगवान् कुर्यात्सदा मङ्गलम् ॥७४॥