This page has been fully proofread once and needs a second look.

१८ श्रीशिवराज्योदयम् ।
 
तौ बालकौ नृत्यरसानभिज्ञौ नातिप्रसन्नाविव नर्तनेन ।
प्रौढा हि यस्मिन् विषये सरागा: प्रायेण तस्मिन् शिशवोऽपरागाः ॥४९॥
तौ हेतुनाऽनाकलितेन बालौ परस्परं केनचिदान्तरेण ।
आकृष्यमाणाविव मुग्धभावौ समागतौ मण्डपपार्श्वकोणे ॥५०॥
बाल: स तामाह रुषेव किञ्चित्, "यदा मया नाम निवेदितं ते ।
तदैव नावेदितमात्मनोऽपि नाम त्वया मां प्रति किं नु मूढे ? " ॥
तं रोषदष्टाधरमोषदिद्धं विलोक्य भूयः परिहासबुद्ध्या ।
"जिजाह" मित्युक्तवती व्यतानीत् वक्त्रेऽस्यपार्श्वस्थितकुंकुमं सा ॥५२॥
दृष्ट्वैव तस्याः प्रथमापराधं स भूयसा रोषभरेण बाल: ।
मुष्टिद्वये कुंकुममाददानः प्रतिक्रियां हि द्विगुणां चकार ॥ ५३॥
भूयश्च बालाऽपि तथा चकार पुनः स बालोऽपि हि तादृशं च ।
जिह्वाग्रदर्शं विविधोपहासं तौ चक्रतुः कुङ्कुमरागकेलिम् ॥५४॥
तिरस्करिण्यन्तरसंस्थितानां नवाङ्गनानां चटुलेक्षणानि ।
तयोरनागस्करयोरकर्षत् अह्नाय सा कुङ्कुमरागलीला ॥५५॥
विदर्भराजः स च यादवोऽपि कन्यामनालोक्य समीपसंस्थाम् ।
पश्यन् समन्तात् सहसा ददर्श मनोहरां मुग्धकिशोरकेलिम् ॥५६॥
तत्पार्वतीशंकरनाट्यनृत्यम् शैलूषयोः कृत्रिमरागबन्धम् ।
सन्त्यज्य नैसर्गिकभावहृद्यं दृश्यं चकर्षास्य दृशं मनश्च ॥५७॥
अव्याजमुग्धैः शिशुहावभावैः वशेक्षणं यादवमोक्षमाणाः ।
मालोजिमुख्या हि सभासदस्ते तन्नेत्रकेन्द्राभिमुखा बभूवुः ॥५८ ॥
बालारुणोषःप्रतिमौ कुमारौ तौ कुङ्कुमारक्तमुखारविन्दौ ।
सम्पश्यतः सभ्यजनस्य हर्षो मनस्यणीयस्यमितो ममौ नो ॥ ५९॥
स्त्रीणां च तालोत्थितशिञ्जितेन पुंसां च हास्यध्वनिना तथोच्चैः ।
सविद्युदम्भोधरगर्जनाभः संशुश्रुवे सभ्यजनप्रहर्षः । ६०॥
आकस्मिकाम्भोधरगर्जितेन साश्चर्यभीताविव बालहंसौ ।
तौ दृष्टवन्तौ सहसा गुरूणां दृक्पातवेध्यत्वमिवात्मनोश्च ॥ ६१॥
पलायमानौ त्रपया महत्या भीत्या च तौ द्रागनुधाव्य बालौ ।
स्वयं गृहीतौ बत यादवेन बुधेन विद्याविनयौ यथैव ॥६२॥
शैलूषसन्त्याजितमञ्चकेऽसौ सन्तस्थिवानात्तकुमारयुग्मः ।
प्रफुल्लनेत्राननपुण्डरीकः शुचिस्मितां वाचमुवाज राजा ॥ ६३ ॥
"हे बान्धवाः सम्मुदितान्तरङ्गाः शृणुध्वमीषद् वचनं मदीयम् ।
यस्याखिलानन्दकराविदानीं याताविमौ कारणतां कुमारौ ॥ ६४॥.
यः पार्वतीशंकरयोरिदानीम् आलोकितः सम्प्रणयोऽभिनीतः
तत्पूर्तये तादृशयोश्चिराय किशोरयोर्मडगलसङ्गमोऽस्तु ॥६५॥