This page has been fully proofread once and needs a second look.

तृतीयः सर्गः । १७
 
इत्थं शिशोस्तस्य समुत्सुकस्य सम्मानयंस्तं मधुरानुरोधम् ।
युवा सधीरस्त्वरयाससाद तन्मण्डपद्वारमुदर्कभाग्यम् ॥३२॥
दृष्टवा कुमारं तमदृष्टपूर्वं उत्साहसम्पन्नमतिप्रसन्नम् ।
द्वारस्थिता स्मेरसरोरुहाक्षी पप्रच्छ मन्दं पितरं किशोरी ॥ ३३॥
" कः सत्वरं तात कुमार एष: धावन्निवाभ्येत्यभिमण्डपं नः ।
स्थास्यत्यसौ किं सदनेऽस्मदीये चिराय, यास्यथवाऽचिरेण ॥३४॥
निशम्य कन्यावचनं तदुत्कं हसन् स राजा सहसा प्रसन्नः ।
कर्तुं परीहासमिवातिमुग्धं समीपमभ्यागतमेनमाह ॥ ३५ ॥
"हं हो महाराज ! नवागतेन ह्येनां किशोरी प्रतिहाररक्षीम् ।
नामाद्यनावेद्य न जातु लभ्यः सद्यः प्रवेश: शुभमण्डपेऽस्मिन् ॥३६॥
स प्राह बालः सहसा, श्रुणुध्वं कुलं पितुर्नाम ममापि नाम ।
भास्वत्कुले भोसलनामधेये जातोऽस्मि मालोजिसुतः शहाजिः ॥ ३७॥
अन्योन्यमुवीक्ष्य कुमारकौ तौ जातप्रमोदावनिमित्तमेव ।
स्वजन्मजन्मान्तरजातसङ्गम् अनुस्मरन्ताविव निर्विकारम् ॥ ३८॥
सुखोपविष्टेषु सुहृज्जनेषु ताम्बूलपात्रेषु च चारितेषु ।
समुन्नते मण्डपमध्यभागे निशारुकं प्रादुरभून्मनोज्ञम् ॥ ३९ ॥
तदा तदाकर्णयतां जनानां संवादसक्तश्रवणेन्द्रियाणि ।
मञ्जीरनादेन पदोत्थितेन हठादिवाकृष्य वशीकृतानि ॥४०॥
शैलेन्द्रकन्या-नटराजरूपं शैलूषयुग्मं प्रियचारुवेशम् ।
धिमिद्धिमिद्ध्वाननिषक्तपादं झटित्यकर्षन्नयनानि तेषाम् ॥४१॥
तपस्विनीं भूधरराजकन्यां परीक्षमाणः शिववर्णिलिङ्गी ।
नाट्येन यास्यन् विकटं सगीतम् आश्चर्यवत् सभ्यजनैरलोकि ॥ ४२ ॥
शिव:- " वद वद पर्वतराजसुते ! तप एवं कस्य कृते तपसि ?
अमलमिदं कमलं च कुवलये मानिनि ! किं त्वं म्लापयसि ? ॥४३॥
पार्वती - " त्रिगुणातीतं त्रिभुवननाथं त्रिदशमहेशं कि स्मरसि ? ।
त्रिपुरहरं वा त्रिखरशरं वा त्रिनयनकमलं किं नमसि "? ॥४४॥
शिव:- "शशिनि किमिति तनुषे तनमानं मृगशिशुनयने मन्थरताम् ?
हिमनगतनये विततश्वसने सन्तनुषे वा किमहिमताम् ?" ॥ ४५ ॥
पार्वती - "गगनसुकेशं चन्द्रविभूषं भसितसितं तं कि मनुषे ?
भुजगकुण्डलं मेचककण्ठं परमयोगिनं किं वनुषे ?" ॥४६॥
शिवः - " वद वद बाले वितथतपस्विनि ! किमिति दरिद्रं कामयसे ? "
पार्वती-"चल चल दूरे भगवन्निन्दक! किमिति वृथा मां पीडयसे ?" ॥ ४७
 
तदीश्वरीयप्रणयप्रदर्शि विलासलास्यं प्रविलोकयन्ती
सभाऽभवत्सा विगतान्यसंज्ञा गाढानुरागैकरसावमग्ना ॥४८॥