This page has been fully proofread once and needs a second look.

प्राक्कथनम्
 
कृती भविष्यति वर्णेकरसूरिः ।
 
प्रतिबिम्बित-मनुज-सुलभ-गुणदोषजाते पञ्चषसहस्र वर्षावधिमात्र-
स्पष्टरूपरेखे मनुष्यजातीतिहासक्रमे विरलानुपाता एवाविर्भावा महापुरु-
षाणाम् । तत्र केचन धर्मानुशासन-शोधित-स्वान्ताः केचिद् विज्ञानसिद्धयुद्-
भासित-दिगन्ताः केस्विच्च स्वपराक्रमनिरस्त-पारतन्त्र्यध्वान्ताः समवृतन् ।
चरमकोटिसमाविष्टास्तत्र कराङगुलिमेयसंख्या एव ते येषु समन्वय उप-
लभ्यो गुणविशेषाणां वीरता-साधुता-चातुरी- सर्वजनक्षेमपरता-प्रभृतीनाम् ।
एतेषु धुरीणाग्रेसर-नर-केसरिषु निःसन्देहम् अग्रगण्यः पुण्यश्लोकः श्रीमत्-
शिवच्छत्रपतिः । किमत्र चित्रं यत्तद्गुणैः कर्णमागत्य डॉ. श्री. भा. वर्णेकर:
कविर्न चापलाय- किन्तु दशहायनाधिकायत महाकाव्य-प्रणयन-व्यवसायाय
प्रचोदितः। दिष्ट्या फलेग्रहिरभूदयं द्राघीयान् व्यायासः प्रकाशनोन्मुखश्च
सहृदयानां समक्षम्। तस्येदं प्राक्कथनं मत्तोऽभिजग्मिवान् कविर्माम्
अतितरां समभावयत् ।
 
पुरः स्थापितं सहृदयानाम् इदं श्रीशिवराज्योदयं महाकाव्यं
वर्णेकरस्य द्विपञ्चाशदधिकाष्टशताधिक त्रिसहस्रपदमितम् ( ३८५२)
अष्टषष्टिसर्गायामवन्न केवलं काव्यस्य परन्तु महाकाव्यस्यापि तांस्तान्
विदग्धवर्णितान् गुणान् सम्यक् पुष्णाति । संस्फूर्तिर्भावानाम् उत्कट उन्मेष:
प्रतिभाविष्कारश्चारुपद-विन्यासः सदुपमार्थान्तरन्यासाद्यलङकार-प्राचुर्यं
सर्वम् इदम् उपलभेत सहृदयः पठितास्यां कृतौ । तत्रापि कविनाश्रिता
वैदर्भीरीतिरतीव साम्प्रता समुहलसति पदे पदे । यथाह कविरेकः
 
अनभ्रवृष्टि: श्रवणामृतस्य सरस्वतीविभ्रमजन्मभूमिः ।
वैदर्भरीतिः कविनामुदेति सौभाग्यलाभप्रतिभूर्जनानाम् ॥ "
यथाह भवभूतिः—" कालो ह्ययं निरवधिर्विपुला च पृथ्वी । " शनैः
शनैरस्तङ्गामिनि सुरभारतीप्रणये भारतेऽद्यतने महाकाव्यस्यास्यानवद्य-
पद्यस्य न विद्येरन् आस्वादयितारो रसिका: पर्याप्त संख्या: कामम् । द्रढीयान्
पुनर्मम विश्वासो यदचिरादेवोक्षितकालस्थलसीमां कृतिमात्मनः सर्वतोवि-
सारि-रसिक-मण्डलं रञ्जयित्वा संस्कृत-साहित्य-प्राङ्गणे लब्धवर्णाम्
आलोक्य कृती भविष्यति वर्णकरसूरिः ।
 
हैदराबाद दि. ९।१।७२
 
चिं. द्वा. देशमुख