This page has been fully proofread once and needs a second look.

श्रीशिवराज्योदयम् ।
 
विचित्रवासःस्थगितोद्वितानः स्तम्भावनद्धोज्ज्वलकर्पटश्च ।
अधः समास्तीर्णकटिर्विरेजे स मण्डपः कौतुकमण्डपाभः ॥१५॥
न्यस्ताः प्रतिस्तम्भमुदारगुच्छा: सपादपाः गैरिकरक्तकुण्ड्यः।
ताभिर्गुहोद्यानमनोज्ञशोभाम् अचूचुरत्सत्पटमण्डपोऽसौ ॥ १६ ॥
निमन्त्रिताभ्यागतबान्धवानां सम्मानयोग्यानि सुखासनानि ।
फेनाच्छवासःपरिसंस्तृतानि हंसासनानीव बभुर्मृदूनि ॥ १७॥
तन्मण्डपद्वारमुदारमुच्चैः विस्तीर्णसत्पर्णमयेन युक्तम् ।
रम्भातरुस्तम्भचयेन रेजे तिष्ठत्प्रतीहारमिवोत्पताकम् ॥ १८ ॥
तत्तो नभोमध्यमतीत्य किञ्चित् सूर्ये समुत्सर्पति पश्चिमाशाम् ।
सत्स्वागतं वक्तुमनाः स राजा तन्मण्डपद्वारमुपेत्य तस्थौ ॥१९॥
तदात्मजा काञ्चनकान्तकान्तिः पद्माननाऽसौ पितृसन्निधाने ।
बभौ सुमुक्ताभरणाऽम्बुजाक्षी पद्मेव साक्षात् सविधे पयोधेः ॥ २०॥
ततः समेताः क्रमशः सखाय: लसन्महोष्णीषभृतः सुवस्त्राः ।
सुकुण्डलाः काञ्चनरत्नहाराः सचन्दनाङ्का विहसन्मुखास्ते ॥२१॥
पयःसितान् कज्जलकृष्णवर्णान् तथैव कांश्चिद् विलसत्पृषत्कान् ।
विभूषणोत्रादवतस्तुरङ्गान् अध्यास्य केचित् समये समेताः ॥२२॥
विलम्बिघण्टामणिशंङखगुञ्जा मालाधरैरुत्ककुदैर्वृषैश्च ।
संवाह्यमानैः शकटैरुपेताः केचित् पुनः केचन पादचर्याः ॥२३॥
तेष्वागतः कश्चन यौवनाढ्यः धीरोद्धतोऽल्पाल्पविभूषिताङ्गः ।
कराङ्गुलीलग्नकरेण साकं बालेन जल्पन् सकुतुहलेन ॥२४॥
सुधाकरास्यः कुमुदेक्षणश्च बिम्बाधरो मौक्तिककान्तदन्तः ।
तं मण्डपं वीक्ष्य मुदान्वितोऽसौ पप्रच्छ किञ्चित्पितरं किशोरः ॥ २५ ॥
तातायमुच्चैर्नवमण्डपो हि सुदर्शन: केन विनिर्मितोऽत्र ?
निशम्य तद्वाक्यमसौ युवापि प्रसारिताग्राङ्गुलिराह बालम् ॥ २६॥
अमुं पुरा पश्यसि भूषणाढ्यं प्रालम्बसंवेष्टितकण्ठभागम् ।
हसन्मुखं त्वामभिवीक्षमाणं तस्यैव राज्ञः शुभमण्डपोऽयम् ॥२७॥
निमन्त्रितास्तेन वयं समस्ताः अत्यादरेणाद्य महोत्सवाय ।
तद् याहि शीघ्रं समयातिपात: कदापि कार्यो न निमन्त्रितेन ॥ २८ ॥
"यन्नैव कार्य: समयातिपातः तत् किं विवाहो भविताऽत्र तात?
कालातिपातो हि विवाहयोगे न युज्यते खल्विति ते वदन्ति ॥२९॥
श्रुत्वेति मुग्धां तनयस्य वाणीं तं वक्तुकामः परिहासपूर्वम् ।
पिताऽऽह "नूनं तव मङ्गलार्थं सन्मण्डपोऽयं च महोत्सवश्च ॥३०॥
तद् वाक्यभावार्थमनाकलय्य मुग्धः स बालः पुनराह तातम् ।
"तन्मन्दमन्दं किमु सम्प्रयासि ? धावन्तमन्वेहि च सत्वरं माम् ॥ ३१ ॥