This page has been fully proofread once and needs a second look.

66
 
श्रीशिवराज्योदयम् महाकाव्यम् ।
"वसन्तमाङ्गल्यम्" नाम तृतीयः सर्गः
 
अथ प्रशान्ते शिशिरर्तुयुग्मे नीहारमन्दीकृतचन्द्रसूर्ये ।
प्रम्लापिताशेषसरोजवृन्दे समागतोऽसौ सकलर्तुराजः ॥ १॥
काष्ठावशिष्टास्तरवो महान्तः नष्टश्रियो भूपतयो यथैव ।
वसन्तभाग्योदयकालयोगे विनिर्गतां प्रापुरिवात्मलक्ष्मीम् ॥२॥
पिकद्विजा उद्गिरणेऽसमर्थाः चिराय ये मञ्जुलकूजितर्चाम् ।
वसन्तसौराज्यमनुप्रवृत्तं तेषां पुनः कूजनसामगानम् ॥३॥
नवीनचूताङ्कुररक्तकण्ठा : वसन्तराजागमनाग्रदूताः ।
सुस्वागतं पञ्चमरागतानैः पुंस्कोकिला ऊचुरखण्डमुच्चैः ॥४॥
ते दाक्षिणात्या मलयानिलाश्च श्रीखण्डसंपर्कसुगन्धवन्तः ।
सह्यप्रपातोच्छलितैस्तुषारै: आलिङ्गिता स्नेहभरेण गाढम् ॥ ५॥
पादाहतोऽद्यावधि दासवद् यो दधार शोभामसकृत् सशोकः ।
विनैव पादाभिहतिं स एव बभार शोभामसमामशोकः ॥ ६॥
आम्रप्ररोहानवधूनयन्तो वेगप्रवृत्ता मलयाद्रिवाताः ।
उड्डीनभृङ्गालिभिरुन्मदाभिः गुञ्जारवं मङ्गलमीरयन्ति ॥७॥
प्रफुल्लपङ्केरुहकोशजन्यं मधु प्रकामं मधुरं पिबन्तः ।
मधोर्यशः सञ्जगुरुच्चकैस्ते गुञ्जारवैरुन्मदचञ्चरीकाः ॥८॥
उद्गीयमानं स्वयशो निशम्य प्रसन्नचेता इव माधवोऽसौ ।
प्रफुल्लगुच्छच्छविभिर्मनोज्ञं शुचिस्मितं सम्प्रकटीचकार ॥ ९॥
निसर्गकाषायरुचस्तरूणां नवोद्गताश्चञ्चलपल्लवास्ते ।
विरेजिरे सह्यगिरौ विरुढा: उदर्कभाग्योदयवैजयन्त्यः ॥१०॥
हेमन्तसम्पातपराहताऽसौ अज्ञातवासेव हि याज्ञसेनी ।
सह्याद्रिसंस्था सुनिसर्गलक्ष्मी: पुनर्नवं वैभवमुद्दधार ॥११॥
मनोहरां वीक्ष्य मधुप्रवृत्तिं महाधनो यादववंशकेतुः ।
विदर्भसीमास्थितपत्तने स्वे वसन्तमाङ्गल्यमहं व्यतानीत् ॥ १२॥
निमन्त्रितास्तेन महोत्सवाय सम्बन्धिनो ये सविशेषसङ्गाः ।
सुखप्रमोदावसरे नराणां प्रियः सुहृद्द्बन्धुसमागमो हि ॥ १३॥
सुहृज्जनानां गृहमागतानां सुखाधिवासार्थमकारयत् सः ।
गृहाङ्गणे मण्डपमेकमुच्चैः मनोरथाकारमिवात्मनश्च ॥ १४॥