2022-11-17 15:27:52 by Chinmay
This page has been fully proofread once and needs a second look.
१४ श्रीशिवराज्योदयम् ।
ब्रह्मचर्यव्रतप्राप्तं दण्डमुद्यम्य पैप्पलम् ।
तर्जयन्निव निर्भीकः सर्वान् धर्मरिपून् सदा ॥ ३६ ॥
अष्टमूर्तेरपावित्र्याद् रक्षन्नापोमयीं तनुम् ।
वज्रसारे दधन् मुष्टौ तीर्थोदककमण्डलुम् ॥ ३७॥
पाञ्चभौतिकपिण्डस्य धारणार्थमयाचत ।
पञ्चमुष्टिमितं धान्यं योऽन्वहं गृहपञ्चके ॥ ३८ ॥
रघुवीरजयोद्घोषं गर्जन्नुच्चैर्गृहे गृहे ।
रामदासशुभोपाधिं प्रापोपाधिक्षयेऽपि यः ॥ ३९ ॥
पदस्थपादुकायुग्मोत्थितैश्चटचटायितैः ।
निर्दिशंस्तीर्थसञ्चारे धर्मस्य त्वरितां गतिम् ॥ ४० ॥
आशीर्वचनसंयुक्तां यदीयां सहसोदिताम् ।
ब्रह्मवर्चस्विनीं पुण्यां वाचमर्थोऽनुधावितः ॥ ४१ ॥
कञ्चित् पञ्चत्वमापन्नं नरमुज्जीव्य लीलया ।
योऽव्यञ्जयत् स्वसामर्थ्यं राष्ट्रसंजीवनक्षमम् ॥ ४२ ॥
येनाप्रपादमाधाय कौपीनं गैरिकारुणम् ।
अरुणेनेव निर्दिष्टः स्वातन्त्र्याहर्नवोदयः ॥ ४३ ॥
श्मश्रुलेन जटालेन स्वाननेन च यो बभौ ।
धूमावृतो महातेजा यज्ञाग्निरिव जङ्गमः ॥ ४४ ॥
नवोदितः समर्थोऽसौ विश्वामित्र इवापरः ।
प्रबोधयन्महाराष्ट्र मित्रवन्मन्त्रवगिरा ॥ ४५ ॥
धगद्धगद्विनिर्गच्छत्प्रलयंकरदाहभूत् ।
ज्वालेव सर्पसत्रस्य यद्वाणी रणकर्कशा ॥ ४६ ॥
धीरगर्जनया लोका: येन सर्वे प्रबोधिताः ।
नवोदितेन मेघेन सिंहा इव गुहाशयाः । ४७ ॥
धर्मराज्याग्रदूताभं यमासेतुहिमाचलम् ।
सञ्चरन्तं प्रतिक्षेत्रं प्रतिपादं नतो जनः ॥४८॥
तिमिरनिचयमग्ने रत्नसूमण्डलेऽस्मिन्
कथमपि स सुधांशुर्वारुणो हन्ति दोषम् ।
जगति परमशेषध्वान्तविध्वंसनार्थम्
दिनमणिरिव नान्यः कोऽपि पुण्यप्रतापी ॥४९॥
सन्मन्त्रजागरविनिर्गतनैद्रमुद्रः लोकोऽखिलः कमपि मानवलोकबन्धुम् ।
सह्योदयाद्रिशिखरे समुदीयमानं भास्वत्सहस्रकरमीक्षितुमातुरोभूत् ॥५०॥
॥ इति श्रीशिवराज्योदये महाकाव्ये द्वितीयः सर्गः समाप्तः ॥