This page has been fully proofread once and needs a second look.

द्वितीय: सर्ग: । १३
 
सर्वत्रेश्वरभावेन सर्वथाऽवनतं शिरः ।
यस्योष्णीशसितं रेजे यशः स्वमिव पिण्डितम् ॥२०॥
हृदयंगमभावार्द्रं दिव्यभक्तिरसप्लुतम् ।
वचो-ब्रह्म ननर्तेव यदीयहरिकीर्तने ॥ २१ ॥
वैदेहीमिव यद् वाणीं गङ्गेवेन्द्रायणी नदी ।
चिररात्राय निर्मग्नां संररक्षोद्द्धार च ॥ २२ ॥
प्राकृतामपि यदवाणी सेवमानोऽत्र विन्दते ।
सुसंस्कृतत्वं दुष्प्रापं सर्वलोकशुङ्करम् ॥२३॥
सीताया इव यद्वाच: स्पर्शतो रघुनाथवत्
विमूढोऽपि समाजोऽयं प्रकृति स्वामपद्यत ॥२४॥
यदीयैः कांस्यतालानां तालमन्वाहतैः पर्दैः ।
संक्षुण्णो भक्तिमार्गोऽभूत् स महाराष्ट्रमण्डले ।॥ २५॥
 
रामदासः-
यद्रूपेण महौजस्कः क्षात्रभावः परन्तपः ।
प्राप्तुं भूयस्तपःशक्तिं ब्राह्मीं मूर्तिमिवाश्रितः ॥ २६ ॥
भक्तिप्रियोऽनिकेतश्च वसुधककुटुम्बकः ।
लोकप्रपञ्चनिरतस्तथाप्येकान्तमास्थितः ॥ २७ ॥
जाग्रद्दिवानिशं बाह्यान्तरारिदमनोद्यतः ।
रात्रिबुद्धं दिवासुप्तं नूनं संयमिनं हसन् ॥२८॥
कालेन महता नष्टः यः कृष्णेनापि बोधितः ।
स समुज्जीवितो येन कर्मयोगः स्वकर्मणा ॥ २९॥
गोदावरीसरिन्नीरे यो निमग्नार्धविग्रहः ।
जपमग्नो जनैर्मेने जपयज्ञ: सविग्रहः ॥३०॥
तिष्ठन्नेकेन पादेन ह्यामध्यन्दिनमोदयात् ।
सहस्रपादमुद्यन्तं कुर्वंल्लज्जारुणप्रभम् ॥ ३१॥
गोदावरीसरित्कुण्डे तिष्ठन् तिष्ठद्गु यो बभौ ।
जटाल: श्मश्रुलो मूर्तस्तिष्ठद्धोम इवोज्ज्जलः ॥ ३२॥
उर्ध्वचन्दनरेखाभ्यां भालस्थाभ्यां विरोधिनोः ।
तुल्यत्वमादिशन्नूनं प्रपञ्चपरमार्थयोः ॥ ३३ ॥
तीर्थाभिषेकपूतं स्वं वपुर्भूयोऽपि भूतिमत् ।
कृत्वा दिशन् सहावस्थां पावित्र्यैश्वर्ययोरिह ॥ ३४॥
रघुवीरगुणग्रामं क्रमश: संस्मरन्निव ।
चलदोष्ठपुटं नित्यं भ्रामयञ्जपमालिकाम् ॥ ३५॥
 
१३