This page has been fully proofread once and needs a second look.

१२ श्रीशिवराज्योदयम् ।
 
दिव्यतेजस्विनोरासीत् तयोः समसमागमः ।
मुक्तिप्रदो महाराष्ट्रे भक्तिकर्माध्वनोरिव ॥ ५ ॥
लोकार्थकामसिद्ध्यर्थं प्रायेण करुणैश्वरी ।
आविर्भवति लोकेस्मिन् मूर्तिमाधाय धार्मिकीम् ॥ ६॥
सत्सुधासिन्धुलहरी चित्कल्पतरुमञ्जरी
सुखेन्दुमृगकस्तूरी करुणा पारमेश्वरी ॥ ७ ॥
सामर्थ्यश्वर्ययशसां कीर्तिसम्पत्तितेजसाम् ।
जननी जन्मभूमिश्च करुणा परमेश्वरी ॥८॥
 
तुकाराम:
 
अभङ्गवाणी यस्याभूद् आर्षवाणीव पूजिता
स्वानुभूत्येकसारत्वात् कविता सारवत्तया ॥ ९॥
य "स्तुकाराम"यं कायं स्वर्गं नीत्वा सलोकताम् ।
द्यावापृथिव्योरकरोत् पुण्यै: परमहंसवत् ॥ १० ॥
अब्राह्मणोऽपि ब्रह्मज्ञः निर्द्वन्द्वो द्वन्द्ववानपि ।
यो मोहकोऽपि निर्मोही विग्रही चाप्यविग्रहः ॥ ११ ॥
क्षणशः कणशश्चैव तनुक्षेत्रे विहङ्गमैः ।
क्षीयमाणेऽपि भजनैः योऽकरोत् पुण्यसञ्चयम् ॥ १२ ॥
विठ्ठलस्मृतिमात्रेण निर्यन्नीरं यदक्षिजम् ।
हृदये नीरसस्यापि भक्तिवल्लीमवर्धयत् ॥१३॥
मञ्जुलोन्नादिनीं श्रुत्वा यद् वीणामैकतान्तवीम् ।
चातुर्मास्येऽपि वैकुण्ठे निद्राभङ्गोऽभवद्धरेः ॥ १४.
मध्ये वैष्णववीराणां वीणादण्डधरः सदा ।
तर्जयन्निव नास्तिक्यं ददृशे स तदग्रणीः ॥१५॥
यं प्राकृतकविश्रेष्ठम् अप्राकृतगुणान्वितम् ।
अनूत्सिक्तमनूचाना वन्द्या अपि ववन्दिरे ॥ १६ ॥
प्रसाद इव सच्चित्ते यद् भालफलके बभौ ।
धवलस्तिलको हृद्यो गोपीचन्दनकल्पितः ॥१७॥
शश्वदन्तःप्रवृत्तस्य जपयज्ञस्य साक्षिणी ।
तुलसीकाष्ठमालाऽसौ यदीयहृदये बभौ ॥ १८ ॥
प्राक्तनानां सुतपसां परिपाक इवाबभौ ।
धौतवासोमयो वेशो यस्य काये तपोमये ॥१९॥