This page has been fully proofread once and needs a second look.

श्रीशिवराज्योदयम् महाकाव्यम् ।
"साधुवर्यद्वयम्" नाम द्वितीयः सर्गः
 
तुकारामः
 
रामदास :
 
रामदासतुकारामौ ह्यध्यात्मज्ञानदीपकौ ।
असङ्गशस्त्रसन्नद्धौ भिन्नावप्येककेन्द्रगौ ॥ २ ॥
 
*****
 
अथ भाविनमुत्कर्षमावेदयितुमत्थितौ ।
उग्रशान्तौ महासाधू सूर्याचन्द्रमसाविव ॥ १ ॥
रामदासतुकारामौ हयध्यात्मज्ञानदीपकौ ।
असङ्गशस्त्रसन्नध्दौ भिन्नावप्येककेन्द्रगौ ॥२॥
महाराष्ट्रमहाम्भोधौ तयोरुज्वलतेजसोः ।
सहसोत्थानमभवत् चन्द्र कौस्तुभयोरिव ॥३॥
तयोः सम्पर्कतः सद्यो जनता-हृदयाम्बरे ।
आत्मतेजः समुत्स्फूर्तं मैत्रावरुणसप्रभम् ॥४॥