2022-11-14 16:48:46 by Chinmay
This page has been fully proofread once and needs a second look.
१० श्रीशिवराज्योदयम् ।
दुःखदग्धहृदयाङ्गनाजन-श्वासमारुतविशेषदाहतः ।
म्लानता बत लतास्वभासत सोष्मता च मलयानिलेष्वपि ॥४४॥
फुल्लपद्मरुचिगैरिकध्वजान् सन्निपात्य सकलान् सनातनान् ।
शैवलातिहरिता ध्वजाः पुनः सर्वतो हि यवनैः प्ररोपिताः ॥ ४५ ॥
हन्त देवगिरिणापहारितं तच्च पूर्वपदमात्मनामतः ।
म्लेच्छकर्मभिरभूदचिन्तितैः सोऽपि दैत्यगिरिरेव तत्त्वतः ॥ ४६॥
ग्रामपत्तनसरित्सरोवराः म्लेच्छवाक्कलुषितात्मसंज्ञकाः ।
नष्ट-पूर्व-विभवा नृपा इव तेऽभवन परिचयेऽपि दुर्विदाः ॥४७॥
रामदेवनृपतेर्विखण्डितं मुण्डमुद्धृतवसाशिरास्थिकम् ।
हन्त कच्चरजलप्रणालिकावक्त्रमित्युपहितं नराधमैः ॥ ४८ ॥
शालिवाहननिवासमन्दिरं सन्निपात्य तदतीवसुन्दरम् ।
तत्र चन्दिरकलाधरं स्वकं मन्दिरं यवनशासकैः कृतम् ॥ ४९॥
अग्निचन्द्ररविवंशजैरपि क्षत्रियैर्हतबलैरिवाहतैः ।
हा श्ववृत्तिरुररीकृताऽधमम्लेच्छशासकपदेषु निस्त्रपम् ॥ ५० ॥
काश्यपात्रिभृगुमुख्यगोत्रजाः ब्राह्मणाः श्रुतिपथात् परिच्युताः ।
देववाचमपहाय मङ्गलां म्लेच्छवाचि धनलोभतो रताः ॥ ५१ ॥
उद्यदर्कदरपाटलप्रभां ये प्रभातसमये ह्युपासिरे ।
ते तदाङ्गुलिपिनद्धकर्णकाः वारुणीमभिमुखा ववन्दिरे ॥ ५२ ॥
पाहि पाहि भगवन् जनानिमान् म्लेच्छराज्यपरिपीडितानिति ।
प्रार्थयंश्चिरमुदश्रुलोचना: साधवः क्वचन भग्नमन्दिरे ॥ ५३ ॥
ग्लानिरत्र घटते यदा यदा धर्मसाधुजनयोस्तदा तदा ।
सम्भवामि तदिदं वचः स्वकं विस्मृतं किमधुना जनार्दन ॥ ५४॥
धर्मसंस्कृति विनाशकारिणी चित्तवित्तवलवृद्धिशोषिणी ।
म्लेच्छराज्यघटिता हि दासता ऐहिकी प्रकटनिर्ऋतिर्नृणाम् ॥५५॥
गौरियं हि जननीव ते मता नस्तथैव, परमत्र साऽधुना ।
हन्त हन्त पथिलोकसङ्कुले हन्यते चिरमनाथवत् प्रभो ! ॥ ५६॥
किं करोमि बत कुत्र यानि वा प्रार्थयाम्यथ कमत्र राघव ।
दृश्यते तत्र तपोवनस्थली ध्वस्तनन्दनवनस्थलीव सा ॥ ५७॥
घोरसंकटतमोविदारिणी निर्मलान्तरनभोविहारिणी ।
चन्द्रिकेव जगदीशतोषिणी भक्तिरेव हि सतां बलीयसी ॥५८॥
भक्त्याकुलार्तवचनैः सततं जनानां चेतोऽद्रवद् द्रुतम हो जगदीश्वरस्य ॥
भक्तान्तरङ्गभवविह्वलवाच एव देवान्तरद्रवविधावुचितोऽभ्युपायः ॥ ॥
॥ इति श्रीशिवराज्योदये महाकाव्ये प्रथमः सर्गः समाप्तः ॥