This page has been fully proofread once and needs a second look.

८ श्रीशिवराज्योदयम् ।
 
ज्ञानराजः ।
 
ईश्वरोपनिषदर्थबोधिनीं ज्ञानभक्तिकवितासुधामयीम् ।
प्राकृतामपि गिरं चकार यो ज्ञानराज इह सोऽधितिष्ठति ॥ २५ ॥
★ ★ ★ ★ ★ ★
धर्मराज्यजनितं सुदुर्लभं पुण्यकर्मनिरतैश्च मानवै: ।
यत्र भूमितल एव पावने स्वर्गलोकसुखमन्वभूयत ॥ ३८॥
तत्र चन्दनवने यथोरगा: नन्दनोपवन उन्मदासुराः ।
म्लेच्छशासनधुरन्धराः खरा हन्त सौख्यमपहन्तुमुद्यताः ॥३९॥
यत्र सौख्यमसुखं हि तत्र च यत्र सम्पदथ तत्र वा विपत् ।
तद्विरुद्धमपि तन्वती क्वचित् कालचक्रगतिरिद् गरीयसी ॥४०॥
वेदमन्त्रमयपावनध्वनिः यत्र कर्णपथमागतः पुरा ।
हन्त तत्र हतविप्रयोषितां क्रन्दनार्तनिनदोऽपि शुश्रुवे ॥४१॥
यत्र भक्तजनवृन्दनर्तनं तन्तुवाद्यसहितं मनोहरम् ।
तत्र बर्बरविलासिताण्डवं मद्यपानसहितं भयंकरम् ॥४२॥