2022-11-14 16:33:12 by Chinmay
This page has been fully proofread once and needs a second look.
  
  प्रथमः सर्गः ।                                                                                                      ७
  
पाण्डुरङ्गः ।
   
पाण्डुरङ्गदृढभक्तिविह्वला: पण्डिताश्च वणिज: कृषीवला: ।
यत्र सत्कविपवित्रगीतिभिः नादयन्ति गिरिकाननान्यपि ॥ २४ ॥
   
★
   
*
   
पारतन्त्र्यहतशक्तिभिर्जनैर्यत्रवीरचरितेऽवलोकितः ।
दुष्प्रधर्षतमवीर्यभासुरः क्षात्रधर्म इव मूर्ति-सञ्चरः ॥ ३३ ॥
राक्षसप्रतिमघोरशात्रवे प्रेरयन् मरणभीतिवेपथुम् ।
चापचक्रधर-रामकृष्णयोर् योऽभवत् प्रतिनिधिः स्वकर्मणा ।
यत्र वेरुलशिलोच्चये दृढं बुद्धविष्णुशिवसेवकैः कृतम् ।
शिल्पकर्म तदनल्पमूर्तिकं विस्मयास्पदमशेषभूतले ॥३५॥
यद् विलोक्य सकलाः कलाविदः विस्मयस्तिमितलोचना इव ।
स्वानुभूतिमपि तर्कयन्ति ते स्वप्नवच्च विततैन्द्रजालवत् ॥३६॥
वेदनादरहितेऽपि भूतले वैदिकद्विजकुलोत्थितैः स्वरैः ।
मार्जितप्रणववर्णमूर्धगश्चन्द्रबिन्दुरिव यो ह्यभासत ॥ ३७॥