This page has been fully proofread once and needs a second look.

६ श्रीशिवराज्योदयम् ।
 
पण्ढरपुरी
 
कीर्तनाहतमृदङ्गमर्दलकांस्यतालशततालनादिनी ।
धर्ममन्दिरमनोज्ञघण्टिका यत्र पण्ढरपुरी प्रकाशते ॥ २३ ॥
 

 
भूमिगर्भगतशास्त्रविज्जनः प्रज्वलन्मुखममुं महागिरिम् ।
शङ्कते, परमनेन तत्सदाऽऽविष्कृतं निजजनोग्रतेजसा ॥२७.
व्याघ्रनृन्दविततोच्चगर्जन: गह्वरप्रतिनिनादमेदुरैः ।
व्यञ्जयत्यतिभयंकरायतिं वीरवृत्तिमिव यः स्वभावजाम् ॥२८।
यः स्वधर्मपरिरक्षणोद्यतैः खड्गशूलधनुरादिकोविदैः
शस्त्रकोश इव संबभौ जनैः हिन्दुभूकटितरावलम्बित: ॥ २९॥
आहिमालयमुदीर्णसद्यशाः वीरवर्यविनताङ्घ्रिपङ्कजः ।
येन मेकलसुतातटे कृतो हर्षहीन इव हर्षवर्धनः ॥ ३०॥
सर्ववर्णकुलसम्भवाङ्गना जन्मसिद्धरणरागतः सदा ।
यत्र शस्त्रमयकेलिशालिनी चण्डिकेव ददृशेऽद्रिसम्भवा ॥३१॥
मल्लकेलिषु विशेषरागत: शोणमृत्कणविलिम्पनैर्नराः ।
यत्र वार्धकसितान् स्वमूर्धजान् चक्रिरेऽम्बुजपरागसुन्दरान् ॥३२॥