This page has been fully proofread once and needs a second look.

प्रथमः सर्गः । ५
 
वीरमारुतिः ।
 
ग्रामसीमसु सरित्तटेषु वा यत्र पिप्पलतलेषु दृश्यते ।
लोहितो ह्यसुरशोणितैरिव दक्षिणाभिमुखवीरमारुतिः ॥२०॥
 

 

 
ब्रह्मविष्णुशिवनामतस्त्रिधा संविभक्तवपुषः परात्मनः ।
यत्र चात्रिमुनिपुत्रविग्रहे भावुकैश्चिरमुपासितैकता ॥२१॥
अप्रतिष्ठमिव काशिकापुरं साङ्गवेदविदुषां द्विजन्मनाम् ।
गर्जनाभिरकरोच्च तत् प्रतिष्ठानमस्य हृदयैकभूषणम् ॥२२॥
कीर्तनाहतमदगमर्दलकांस्यतालशततालनादिनी ।
धर्ममन्दिरमनोज्ञघण्टिका यत्र पण्ढरपुरी प्रकाशते ॥२३॥
पाण्डुरङ्गदृढभक्तिविह्वला: पण्डिताश्च वणिज: कृषीवला: ।
यत्र सत्कविपवित्रगीतिभिः नादयन्ति गिरिकाननान्यपि ॥२४॥
ईश्वरोपनिषदर्थबोधिनीं ज्ञानभक्तिकवितासुधामयीम् ।
प्राकृतामपि गिरं चकार यो ज्ञानराज इह सोऽधितिष्ठति ॥२५॥
योगिभिश्चिरसमाधिधारिभिर्भूमिगर्भनिहितात्ममूतिभिः ।
देश एष सकलोऽपि संस्फुरद् - योगशक्तिरिव भाति सर्वथा ॥२६॥