This page has been fully proofread once and needs a second look.

४ श्रीशिवराज्योदयम् ।
 
सागर: परशुरामयाचितो याचकस्य समवेक्ष्य वीरताम् ।
यस्य पश्चिमतटाश्रयां ददौ वासभूमिरिति तामुपत्यकाम् ॥ १४॥
द्वादशात्मशुभलिङङ्गतोधिकान्यत्र भूरि रुचितोऽवधाप्य च ।
शम्भुना तदितराणि भारते सर्वतो निदधिरे कथञ्चन ॥१५॥
ज्ञाननिष्ठजनचित्तविष्टरश्चञ्चलश्रुतिविशिष्टविग्रहः ।
यत्र चाष्टविषयेषु राजते सोऽष्टसिद्धिविभवो विनायकः ॥ १६॥
 

 
पञ्चवटी
 
तच्चिरन्तनमहर्षिसेवितं प्राप्य पूतवटपञ्चकं पदम् ।
यत्र दाशरथिनाऽपि विस्मृतं मातृसन्निधिमहासुखं चिरम् ॥१७॥
 

 
रामचन्द्र पदपङ्कजाङ्कितां जानकीविरहदुःखसाक्षिणीम् ।
यत्र पावनतमां वनस्थलीं वन्दते परमभक्तितो जनः ॥१८॥
रावणापहृतजानकीशुचा व्याकुलस्य रघुनन्दनस्य च ।
येन वानरबलेन सर्वथा घोरसंगरसहायता ददे ॥ १९ ॥