This page has been fully proofread once and needs a second look.

श्रीशिवराज्योदयम् महाकाव्यम्
"सह्यमहाराष्ट्रीयम्" नाम प्रथमः सर्गः ।
 
श्रीमदूर्जितमुदग्रमैश्वरं सर्वदुःखविपदोघसंहरम् ।
धाम शैवमथवाऽस्तु वैष्णवं मन्महे मनसि तन्निरन्तरम् ॥१॥
अस्ति दक्षिणदिगेकमण्डनं नातितुङ्गशिखरावलीमयम् ।
भारतस्य परमप्रियं महाराष्ट्रमित्युचितनाम मण्डलम् ॥ २ ॥
भाति यत्र शिखरावली मधौ पुष्पितव्रततिजालकावृता ।
पुष्प बिल्वदलपुञ्जपूजिता स्थाणुलिङ्गशतमालिकेव सा ॥३॥
यत्र पर्वततटीस्खलन्नदी-नीरगद्गदनदन्महाध्वनिः ।
मेघगर्जतधियाऽभिनन्द्यते ताण्डवेन समदैः शिखावलैः ॥४॥
वार्षकालिकसहस्रनिर्झरै: भास्करोज्ज्वलमयूखभास्वरैः ।
भाति हीरकरसावगुण्ठितो रत्नसानुरिव यो द्रवीभवन् ॥ ५ ॥
दुर्गसानुजलकुण्डदर्पणो बिम्बिता शरदि तारकावली ।
यत्र सम्परिविसर्पिरोचिषा विन्दते द्विगुणितोज्ज्वलप्रभाम् ॥ ६॥
मेघपुञ्जवृततुङ्गशृङ्गवान् शारदीं च दधदैन्दवीं कलाम् ।
ध्यानसुस्थिरविशालविग्रहो व्योमकेश इव चन्द्रशेखरः ॥ ७॥
यस्य दुःसहनिसर्गतेजसा कुण्ठितै रिपुकुलैर्विनिर्ममे ।
रोषनिःश्वसितसोष्ममारुतैः हैमनेऽपि पवने कवोष्णता ॥८॥
ज्योतिषा परिविकीर्णरोचिषा यत्र दाहसमयेषु संहृतम् ।
विप्रतापभयलज्जया ध्रुवं दाहताधिकमधित्यकास्वपि ॥९॥
ब्रह्मशैलजनिता सरिद्वरा येन भाति हि निजाङ्कलालिता ।
पूर्वसागरसमागमोत्सुका स्वर्णदीव गिरिचक्रवर्तिना ॥१०॥
देवतात्महिमशैलसञ्चितं सिन्धुतोऽम्बु परिगृह्य पावनम् ।
सिन्धुसागर उदूर्मिपाणिभिर्यं निषिञ्चति चिराय भक्तितः॥११॥
उन्नतावनतसानुराजिभिः यः पिताऽपि सरितां सहस्रशः ।
पार्थिवः पतिरिव प्रभासते सुस्थिरायितमहोर्मिभीषणः ॥ १२॥
सप्तदिव्यकुलपर्वतान्तरे सप्तवाहवदतिप्रतापवान् ।
सहयनामभृदपीह यः सदाऽऽविश्चकार हि निजामसह्यताम् ॥१३