This page has been fully proofread once and needs a second look.

( ६ )
 
कं दुनोति न सुतो विरोधकः ॥ ४५
काले मृषा वचनमाहुरगर्हणीयम् ॥ ५०
 
॥ अष्टादशः सर्गः ॥
 
अभद्रशङकाकुलमानसानां जिज्ञासुता वृद्धिमिवेत्यकस्मात् ॥ ६
मृगाधिराजस्य महागुहायां मृगी कथं प्राविशदप्रगल्भा ॥ ३२
न प्रातिकूल्यं परमाणुमानं मोहम्मदीयाः क्वचनासहन्त ।
उपेक्षमाणो हि रिपुस्फुलिङ्गो दावायते कालकलान्तरेण ॥ ३७
 
॥ विशः सर्ग ॥
 
कुतो नु संज्ञाविरहोऽल्पशोऽपि कल्पेत संजीवनमन्त्रयोगे ॥ २६
 
॥ एकविंशः सर्गः ॥
 
न शेषितव्यः खलु देवशत्रुः ॥ २८
आकाङक्षितं दुर्घटमात्मशक्त्या वीराः स्वमातुः परिपूरयन्ति ॥ ३५
 
॥ द्वाविंशतितमः सर्गः ॥
 
जिगीषुरल्पविषयोऽल्पीय सैन्यपरिच्छदः ।
अल्पिष्ठेनैव कालेन जयेदिति मतिर्मम ॥ ९
निदाघ इव दावाग्निः शरत्काले द्विषद्गणः ।
उपेक्ष्यमाणः सहसा जायते बलवत्तरः ॥ २२
प्रीणयन्ति न कं लोके विपत्तिसहयोगिनः ॥ २५
सागरान्तर्गतः किं नु व्यज्यते वडवानलः ॥ ४७
 
॥ त्रयोविंशः सर्गः ॥
 
रत्नाकरोऽपि जलधिनित्यं स्पृहयतीन्दवे ॥ १९
नर्ते राजेन्द्र सेवाया धर्म्यमन्यत् कलौ युगे ॥ २२
राजपीठाभिगमनै राजनिष्ठावलोकनैः ।
राजानुकूलाचरणं राजलक्ष्मीः प्रसीदति ॥ २४
राजस्थाणुमुपाश्रित्य वर्धते कीर्तिवल्लरी ॥ २५
शुभं कामयमानेन वाशुभं निश्चिकीर्षुणा ।
स्वयमेवाभिगन्तव्य धीमता राजवल्लभाः ॥ २६