This page has not been fully proofread.

मधुसूदनीव्याख्यासहितम्
 

 
पालयितेत्यर्थः । अथवाऽहः अहो परम परा मा लक्ष्मीर्यस्खेति तथा
हे लक्ष्मीपते । लक्ष्मीपतित्वान्ममालक्ष्मी स्वत एव नाशयिष्यसीति
योग्यं संबोधनम् । यदि ते महिम्नः त्वन्महिमसंबन्धिनी त्वन्महिम-
विषया स्तुतिः । गिरो महिम्म इति योजनापेक्षया ते स्तुतिरित्येव
समीचीनम्, तत्तर्हि अवसन्नाऽल्पा असदृश्यननुरूपाप्यस्तु, नत्वन्य-
देवतानामनल्पाऽनुरूपापि । अत्र हेतुग विशेषणम् । तव कीदृशस्य ।
ब्रह्मादीनां स्तावकानां गिरः स्तुतिरूपायाः पारं विदुषः । स्तोतुः
श्रमं स्तुतेर्गुणदोषौ च जानत इत्यर्थः । सर्वदेवस्तुत्यत्वेन निरतिश-
यसार्वज्ञ्येन च तवैव सर्वोत्कृष्टत्वादित्यभिप्रायः । स्तुतिफलं दर्शयन्
स्वस विनयातिशयं दर्शयितुमाह । अथ स्वं त्वां अतिपरिणामावधि
अतिक्रान्तो बुद्धिपरिपाकावधिः सीमा यत्र तादृशं यथा स्यात्तथा
स्वशक्तिमतिक्रम्यापि गृणन्स्तुवन् सर्वोऽपि जनः अवाच्य आभिमु-
ख्येन वाच्यः ।संभाषणीयस्त्वयेत्यर्थः । यस्मादेवं सर्वथैवानुगृह्यते त्वया
स्तोता अतएव ममापि स्तोत्रे स्तुतिक एषः परिकरो नमस्कारा-
दिप्रबन्धः । कीदृशः । अनिरपवादः न विद्यतेऽतिशयेनापवादो दूषणं
यस्मात्स तथा । अहरिति वीप्सनीयम् । अहरह्ः सर्वदेत्यर्थः । यद्विप -
यकस्तुतिकर्तृत्वेनान्योऽपि सर्वदा नमस्यः किमु वक्तव्यं स सर्वदा
सर्वेषां नमस्यतरो भवतीति भगवति रत्यतिशयो व्यज्यते । एवं
यस्यायोग्यापि स्तुतिः सान्निध्यकला तस्य योग्या स्तुतिः किं वा
न करिष्यती ध्वनितम् । हरपक्षेऽप्येवम् । तत्र परम श्रेष्ठेति
संबोधनम् ॥ १ ॥
 
पुनरप्यस्तुत्यत्वेनैव भगवन्तं स्तौति पूर्वोक्त स्वस ब्रह्मादि-
साभ्यमुपपाद्यन्
 
अतीतः पन्थानं तव च महिमा वाङ्मनसयो-
रतव्द्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।
स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः
पदे त्वर्वाचीने पतति न मनः कस्य नवचः ॥ २॥