This page has not been fully proofread.

महिम्नस्तोत्रम् ।
 
अथावाच्यः सर्वः स्वमतिपरिणामावधि गृण-
न्ममाप्येप स्तोत्रे हर निरपवादः परिकरः ॥ १ ॥
 
महिम्नः पारमिति। हे हर, सर्वाणि दुःखानि हरतीति हरः ।
योग्यं संबोधनम् । सर्वदुःखहरत्वेनैव प्रसिद्धोऽसि, न मम दुःखहरणे
पृथग्व्यापारं करिष्यसीत्यभिप्रायः । हे सर्वदुःखहर, ते तव महिम्नः
परं पारमवधिमविदुषः एतावानेच महिमेतीयत्तयाऽजानतः । कर्तृत्व-
संबन्धे पष्ठी । अज्ञानत्कर्तृका स्तुतिर्यद्यसदृश्यननुरूपा । अयोग्येति
यावत् । तत्तर्हि प्रह्मादीनां सर्वज्ञानामपि गुणकथनरूपा गिरस्त्वयि
विषयेऽवसन्नाः । अयोग्या एवेत्यर्थः। तैरपीयत्तयाऽज्ञानात् । इयत्ताया
असत्वेन तद्ज्ञाने सार्वज्ञ्यव्याघातोऽपि न । सन्मात्रविपयत्वात्सर्वज्ञ-
त्यस्य । अन्यथा भ्रान्तत्वप्रसङ्गात् । तथाच श्रीभागवते - 'विष्णोर्नु वी-
र्यगणनां कतमोऽर्हतीह यः पार्थिवान्यपि कविर्विममे रजांसि '
इति । अथेति पक्षान्तरे । यद्येवं ब्रूपे तर्हि स्वमतिपरिणामावधि
स्वस मतिपरिणामो बुद्धिविषयता स एवावधिर्यत्रेति क्रिया-
विशेषणम् । स्वबुद्ध्या यावद्विषयीकृतं तावद्गुणन् वाक्सृष्टिसा-
फल्याय कथयन्सर्वोऽपि स्तोता अवाच्योऽनुपालम्भनीयः । 'सा वा-
ग्यया तस्य गुणान्गृणीते करौ च तत्कर्मकरौ मनश्र । जिहा-
इसती दार्दुरिकेव सूत न चोपगायत्युरुगायगाथाः' इति च श्री-
भागवतवचनात् । तर्हि 'नभः पतन्त्यात्मसमं पतविणः' इति
न्यायेन ममाप्येष परिकर आरम्भः स्तोत्रे स्तोत्रविषये निरपवादो-
ऽखण्डनीयः । स्वबुद्ध्यनुसारेण योग्य इत्यर्थः । प्रथमार्धेन स्तु-
तिनिराकरणव्याजेन सर्वदुरधिगममहिमत्वरूपा महती स्तुतिः कृता,
उत्तरार्धेन स्तुतिसमाधान व्याजेन सर्वा स्तुतिरनुरूपेति महत्कौ-
शलम् ॥ ॥ अन्यच्च गन्धर्वराजय महाकुशलत्वादेकेनैव श्लोकेन
यथाश्रुति वक्ररीत्या च हरिशंकरयोः स्तुतिस्तयोरभेदज्ञानायाभि-
प्रेता । तत्र हरपक्षे यथाश्रुति व्याख्यातं, हरिपक्षेऽपि तदेव योजनी-
यम् । संबोधनपदं तु अहरेति । हरतीति हरः संहर्ता तद्विरुद्धोऽहरः ।